ददानीत्येव तं तत्र राजानं प्रत्युवाच ह। वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः
ततः प्रतिययौ काले वसिष्ठः सह तेन वै। ख्यातां पुरीमिमां लोकेष्वयोध्यां मनुजेश्वर
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्गतास्तदा। विपाप्मानं महात्मानं दिवौकस इवेश्वरम्
सुचिराय मनुष्येन्द्रो नगरीं पुण्यलक्षणाम्। विवेश सहितस्तेन वसिष्ठेन महर्षिणा
ददृशुस्तं महीपालमयोध्यावासिनो जनाः। पुरोहितेन सहितं दिवाकरमिवोदितम्
स च तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः। अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः
संसक्तिमृष्टपन्थानं पताकाध्वजशोभितम्। मनः प्रह्लादयामास तस्य तत्पुरमुत्तमम्
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन। अशोभत तदा तेन शक्रेणेवामरावती
ततः प्रविष्टे राजर्षौ तस्मिंस्तत्पुरमुत्तमम्। राज्ञस्तस्याज्ञया देवी वसिष्ठमुपचक्रमे
ऋतावथ महर्षिस्तु संबभूव तया सह। देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः
ततस्तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः। राज्ञाभिवादितस्तेन जगाम मुनिराश्रमम्
दीर्घकालेन सा गर्भं सुषुवे न तु तं यदा। तदा देव्यश्मना कुक्षिं निर्बिभेद यशस्विनी
ततो द्वादशमे वर्षे स जज्ञे पुरषर्षभः। अश्मको नाम राजर्षिः पौदन्यं यो न्यवेशयत्
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत। शक्तेः कुलकरं राजन् द्वितीयमिव शक्तिनम्
जातकर्मादिकास्तस्य क्रियाः स मुनिसत्तमः। पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम्
परासुः स यतस्तेन वसिष्ठः स्थापितो मुनिः। गर्भस्थेन ततो लोके पराशर इति स्मृतः
अमन्यत स धर्मात्मा वसिष्ठं पितरं मुनिः। जन्मप्रभृति तस्मिंस्तु पितरीवान्ववर्तत
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत। मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः। अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह
मा तात ताततातेति ब्रूह्येनं पितरं पितुः। रक्षसा भक्षितस्तात तव तातो वनान्तरे
मन्यसे यं तु तातेति नैष तातस्तवानघ। आर्य एष पिता तस्य पितुस्तव यशस्विनः
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः। सर्वलोकविनाशाय मतिं चक्रे महामनाः
तं तथा निश्चितात्मानं स महात्मा महातपाः। ऋषिर्ब्रह्मविदां श्रष्ठो मैत्रावरुणिरन्त्यधीः
वसिष्ठो वारयामास हेतुना येन तच्छृणु
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः। स तानग्रभुजस्तात धान्येन च धनेन च
सोमान्ते तर्पयामास विपुलेन विशांपतिः। तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कथंचन
बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम्। भृगूणां तु धनं ज्ञात्वा राजानः सर्व एव ते
याचिष्णवोऽभिजग्मुस्तांस्ततो भार्गवसत्तमान्। भूमौ तु निददुः केचिद्भृगवो धनमक्षयम्
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम्। भृहवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम्
क्षत्रियाणां तदा तात कारणान्तरदर्शनात्। ततो महीतलं तात क्षत्रियेण यदृच्छया