सा विपाशेति विख्याता नदी लोकेषु भारत। ऋषेस्तस्य नरव्याघ्र वचनात्सत्यवादिनः। उत्तीर्य च तदा राजन्दुःखितो भगवानृषिः
शोके बुद्धिं तदा चक्रे न चैकत्र व्यतिष्ठत। सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च
दृष्ट्वा स पुनरेवर्षिर्नदीं हैमवतीं तदा। चण्डग्राहवतीं भीमां तस्याः स्रोतस्यपातयत्
सा तमग्निसं विप्रमनुचिन्त्य सरिद्वरा। शतधा विद्रुता तस्माच्छतद्रुरिति विश्रुता
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना। मर्तुं न शक्यमित्युक्त्वा पुवरेवाश्रमं ययौ
स गत्वा विविधाञ्शैलान्देशान्बहुविधांस्तथा। अदृशन्त्याख्यया वध्वाथाश्रमेनुसृतोऽभवत्
अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम्। पृष्ठतः परिपूर्णार्थं षड्मिरङ्गैरलङ्कृतम्
अनुव्रजति कोन्वेष मामित्येवाथ सोऽब्रवीत्। अदृश्यन्त्येवमुक्ता वै तं स्नुषा प्रत्यभाषत
शक्तोभार्या महाभाग तपोयुक्ता तपस्विनम्। अहमेकाकिनी चापि त्वया गच्छामि नापरः
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः। पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते। समा द्वादश तस्येह वेदानभ्यस्यतो मुने
एवमुक्तस्तया हृष्टो वसिष्ठः श्रेष्ठभागृषिः। अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ। कल्माषपादमासीनं ददर्श विजने वने
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत। आविष्टो रक्षसोग्रेण इयेषात्तुं तदा मुनिम्
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः। भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत्
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः। प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति दारुणः
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन। स्वदृतेऽद्य महाभाग सर्ववेदविदां वर
पाहि मां भगवन्पापादस्माद्दारुणदर्शनात्। राक्षसोऽयमिहात्तुं वै नूनमावां समीहते
माभैः पुत्रि न भेतव्यं राक्षसात्तु कथंचन। नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम्
राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि। स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः
तमापतन्तं संप्रेक्ष्य वसिष्ठो भगवानृषिः। वारयामास तेजस्वी हुङ्कारेणैव भारत
मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा। मोक्षयामास वै शापात्तस्माद्योगान्नराधिपम्
स हि द्वादश वर्षाणि वासिष्ठस्यैव तेजसा। ग्रस्त आसीद्ग्रहेणेव पर्वकाले दिवाकरः
रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत्। तेजसा रञ्जयामास न्ध्याभ्रमिव भास्करः
प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः। उवाच नृपतिः काले वसिष्ठमृषिसत्तमम्
सौदासोऽहं महाभाग याज्यस्ते मुनिसत्तम। अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि वै। ब्राह्मणं तु मनुष्येन्द्र माऽवमंस्थाः कदाचन
नावमंस्ये महाभाग कदाचिद्ब्राह्मणर्षभान्। त्वन्निदेशे स्थितः सम्यक् पूजयिष्याम्यहं द्विजान्
इक्ष्वाकूणां च येनाहमनृणः स्यां द्विजोत्तम। तत्त्वत्तः प्राप्तुमिच्छामि सर्ववेदविदां वर
अपत्यायेप्सिताय त्वं महिषीं गन्तुमर्हसि। शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये