तं तदा सुसमिद्धोऽपि न ददाह हुताशनः। दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः
स समुद्रमभिप्रेक्ष्य शोकाविष्टो महामुनिः। बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदाम्भसि
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः। न ममार यदा विप्रः कथंचित्संशितव्रतः। जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति
वसिष्ठ उवाच
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः। निर्जगाम सुदुःखार्तः पुनरप्याश्रमात्ततः
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा। वृक्षान्बहुविधान्पार्थ हरन्तीं तीरजान्बहून्
अथ चिन्तां समापेदे पुनः कौरवनन्दन। अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः। तस्या जले महानद्या निममज्ज सुदुःखितः
अथ च्छित्त्वा नदी पाशांस्तस्यारिबलसूदन। स्थलस्थं तमृषिं कृत्वा विपाशं समवासृजत्
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः। विपाशेति च नामास्या नद्याश्चक्रे महानृषिः
सा विपाशेति विख्याता नदी लोकेषु भारत। ऋषेस्तस्य नरव्याघ्र वचनात्सत्यवादिनः। उत्तीर्य च तदा राजन्दुःखितो भगवानृषिः
शोके बुद्धिं तदा चक्रे न चैकत्र व्यतिष्ठत। सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च
दृष्ट्वा स पुनरेवर्षिर्नदीं हैमवतीं तदा। चण्डग्राहवतीं भीमां तस्याः स्रोतस्यपातयत्
सा तमग्निसं विप्रमनुचिन्त्य सरिद्वरा। शतधा विद्रुता तस्माच्छतद्रुरिति विश्रुता
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना। मर्तुं न शक्यमित्युक्त्वा पुवरेवाश्रमं ययौ
स गत्वा विविधाञ्शैलान्देशान्बहुविधांस्तथा। अदृशन्त्याख्यया वध्वाथाश्रमेनुसृतोऽभवत्
अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम्। पृष्ठतः परिपूर्णार्थं षड्मिरङ्गैरलङ्कृतम्
अनुव्रजति कोन्वेष मामित्येवाथ सोऽब्रवीत्। अदृश्यन्त्येवमुक्ता वै तं स्नुषा प्रत्यभाषत
शक्तोभार्या महाभाग तपोयुक्ता तपस्विनम्। अहमेकाकिनी चापि त्वया गच्छामि नापरः
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः। पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते। समा द्वादश तस्येह वेदानभ्यस्यतो मुने
एवमुक्तस्तया हृष्टो वसिष्ठः श्रेष्ठभागृषिः। अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ। कल्माषपादमासीनं ददर्श विजने वने
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत। आविष्टो रक्षसोग्रेण इयेषात्तुं तदा मुनिम्
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः। भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत्
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः। प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति दारुणः
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन। स्वदृतेऽद्य महाभाग सर्ववेदविदां वर
पाहि मां भगवन्पापादस्माद्दारुणदर्शनात्। राक्षसोऽयमिहात्तुं वै नूनमावां समीहते
माभैः पुत्रि न भेतव्यं राक्षसात्तु कथंचन। नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम्
राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि। स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः