द्विरनुव्याहृते राज्ञः स शापो बलवानभूत्। रक्षोबलसमाविष्टो विसंज्ञश्चाभवन्नृपः
ततः स नृपतिश्रेष्ठो रक्षसापहृतेन्द्रियः। उवाच शख्तिं तं दृष्ट्वा न चिरादिव भारत
यस्मादसदृशः शापः प्रयुक्तोऽयं मयि त्वया। तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं पुरुषानहम्
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयोज्य च। शक्तिं तं भक्षयामास व्याघ्रः पशुमिवेप्सितम्
शक्तिनं तु मृतं दृष्ट्वा विश्वामित्रः पुनःपुनः। वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह
स ताञ्शक्त्यवरान्पुत्रान्वसिष्ठस्य महात्मनः। भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान्। धारयामास तं शोकं महाद्रिरिव मेदिनीम्
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः। न त्वेव कौशिकोच्छेदं मेने मतिमतां वरः
स मेरुकूटादात्मानं मुमोच भगवानृषिः। गिरेस्तस्य शिलायां तु तूलराशाविवापतत्
न ममार च पातेन स यदा तेन पाण्डव। तदाग्निमिद्धं भगवान्संविवेश महावने
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः। दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः
स समुद्रमभिप्रेक्ष्य शोकाविष्टो महामुनिः। बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदाम्भसि
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः। न ममार यदा विप्रः कथंचित्संशितव्रतः। जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति
वसिष्ठ उवाच
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः। निर्जगाम सुदुःखार्तः पुनरप्याश्रमात्ततः
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा। वृक्षान्बहुविधान्पार्थ हरन्तीं तीरजान्बहून्
अथ चिन्तां समापेदे पुनः कौरवनन्दन। अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः। तस्या जले महानद्या निममज्ज सुदुःखितः
अथ च्छित्त्वा नदी पाशांस्तस्यारिबलसूदन। स्थलस्थं तमृषिं कृत्वा विपाशं समवासृजत्
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः। विपाशेति च नामास्या नद्याश्चक्रे महानृषिः
सा विपाशेति विख्याता नदी लोकेषु भारत। ऋषेस्तस्य नरव्याघ्र वचनात्सत्यवादिनः। उत्तीर्य च तदा राजन्दुःखितो भगवानृषिः
शोके बुद्धिं तदा चक्रे न चैकत्र व्यतिष्ठत। सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च
दृष्ट्वा स पुनरेवर्षिर्नदीं हैमवतीं तदा। चण्डग्राहवतीं भीमां तस्याः स्रोतस्यपातयत्
सा तमग्निसं विप्रमनुचिन्त्य सरिद्वरा। शतधा विद्रुता तस्माच्छतद्रुरिति विश्रुता
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना। मर्तुं न शक्यमित्युक्त्वा पुवरेवाश्रमं ययौ
स गत्वा विविधाञ्शैलान्देशान्बहुविधांस्तथा। अदृशन्त्याख्यया वध्वाथाश्रमेनुसृतोऽभवत्
अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम्। पृष्ठतः परिपूर्णार्थं षड्मिरङ्गैरलङ्कृतम्
अनुव्रजति कोन्वेष मामित्येवाथ सोऽब्रवीत्। अदृश्यन्त्येवमुक्ता वै तं स्नुषा प्रत्यभाषत
शक्तोभार्या महाभाग तपोयुक्ता तपस्विनम्। अहमेकाकिनी चापि त्वया गच्छामि नापरः
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः। पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः