पन्था देयो नृपैस्तेषामन्यैस्तैस्तस्य भूपतेः।' राज्ञा सर्वेषा धर्मेषु देयः पन्था द्विजातये
एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः। अपसर्पापसर्पेति वागुत्तरमकुर्वताम्
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः। `अपि राजा मुनेर्मार्गात्क्रोधान्नापजगाम ह
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः। जगाम कशया मोहात्तदा राक्षसन्मुनिम्
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः। तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः
हंसि राक्षसवद्यस्माद्राजापशद तापसम्। तस्मात्त्वमद्यप्रभृति पुरुषादो भविष्यसि
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम्। गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः। वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत
तयोर्विवदतोरेवं समीपमुपचक्रमे। ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान्
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः। ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा
अन्तर्धाय ततोऽत्मानं विश्वामित्रोऽपि भारत। तावुभावतिचक्राम चिकीर्षन्नात्मनः प्रियम्
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः। जगाम शरणं शक्तिं प्रसादयितुमर्हयन्
तस्य भावं विदित्वा स नृपतेः कुरुसत्तम। विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति
शापात्तस्य तु विप्रर्षेर्विश्वामित्रस्य चाज्ञया। राक्षसः किङ्करो नाम विवेश नृपतिं तदा
रक्षसा तं गृहीतं तु विदित्वा मुनिसत्तमः। विश्वामित्रोऽप्यपाक्रामत्तस्माद्देशादरिन्दम
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना। बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह
ददर्शाथ द्विजः कश्चिद्राजानं प्रस्थितं वनम्। अयाचत क्षुधापन्नः समांसं भोजनं तदा
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा। आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तं प्रतिपालयन्
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्। इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः
ततो राजा परिक्रम्य यथाकामं यथासुखम्। निवृत्तोऽन्तःपुरं पार्थ प्रविवेश महामनाः
अन्तर्गतस्तदा राजा श्रुत्वा ब्राह्मणभाषितम्। सोऽन्तःपुरं प्रविश्याथ न सस्मार नराधिपः
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम्। उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्
गच्छामुष्मिन्वनोद्देशे ब्राह्मणो मां प्रतीक्षते। अन्नार्थी तं त्वमन्नेन समांसेनोपपादय
एवमुक्तस्ततः सूदः सोऽनासाद्यामिषं क्वचित्। निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः। अप्येनं नरमांसेन भोजयेति पुनः पुनः
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम्। गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः
एतत्संस्कृत्य विधिवदन्नोपहितमाशु वै। तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः। अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः
यस्मादभोज्यमन्नं मे ददाति स नृपाधमः
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा। उद्वेजनीयो भूतानां चरिष्यति महीमिमाम्