अग्निनाशात्क्रियाभ्रांशाद्भ्रान्ता लोकास्त्रयोऽनघाः। विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु। अग्नेरावेदयञ्शापं क्रियासंहारमेव च
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे। कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्। लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः। स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः
कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशेन। त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि। अपाने ह्यर्चिषो यास्ते सर्वं भक्ष्यन्ति ताः शिखिन्
क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति। यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति। त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो। देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्। जगाम शासनं कर्तुं देवस्य परमेष्ठिनः
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम्। ऋषयश्च यथा पूर्वं क्रियाः सर्वाः प्रचक्रिरे
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः। अग्निश्च परमां प्रीतिमवाप हतकल्मषः
एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा। एवमेष पुरा वृत्त हतिहासोऽग्निशापजः। पुलोम्नश्च विनाशोऽयं च्यवनस्य च संभवः
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्। सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत्। रुरुः प्रमद्वरायां तु शुनकं समजीजनम्
शुनकस्तु महासत्वः सर्वभार्गवनन्दनः। जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः। विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः। स्थूलकेश इति ख्यातः सर्वभूतहिते रतः
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्। गन्धर्वराजो विप्रर्षे विश्वावसुरिति स्मृतः
अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन। उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा। अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया। तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्। स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः
जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च। ववृधे सा वरारोहा तस्याश्रमपदे शुभे
जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्। स्थूलकेशो महाभागश्चकार सुमहानृषिः
प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता। ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्। बभूव किल धर्मात्मा मदनोपहतस्तदा
पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्। प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्