न च प्राणैर्वियुज्यन्ते केचित्तत्रास्य सैनिकाः। विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ
सा गौस्तत्सकलं सैन्यं कालयामास दूरतः। विश्वामित्रस्य तत्सैन्यं काल्यमानं त्रियोजनम्
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत। `विश्वामित्रस्ततो दृष्ट्वा क्रोधाविष्टः स रोदसी
ववर्ष शरवर्षाणि वसिष्ठे मुनिसत्तमे। घोररूपांश्च नाराचान्क्षुरान्भल्लान्महामुनिः
विश्वामित्रप्रयुक्तांस्तान्वैणवेन व्यमोचयत्। वसिष्ठस्य तदा दृष्ट्वा कर्मकौशलमाहवे
विश्वामित्रोऽपि कोपेन भूयः शत्रुनिपातनः। दिव्यास्त्रवर्षं तस्मै स प्राहिणोन्मुनये रुषा
आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यमेव च। विससर्ज महाभागे वसिष्ठे ब्रह्मणः सुते
अस्त्राणि सर्वतो ज्वालां विसृजन्ति प्रपेदिरे। युगान्तसमये घोराः पतङ्गस्येव रश्मयः
वसिष्ठोऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया। यष्ट्या निवारयामास सर्वाण्यस्त्राणि स स्मयन्
ततस्ते भस्मसाद्भूताः पतन्ति स्म महीतले। अपोह्य दिव्यान्यस्त्राणि वसिष्ठो वाक्यमब्रवीत्
निर्जितोऽसि महाराज दुरात्मन्गाधिनन्दन। यदि तेऽस्ति परं शौर्यं तद्दर्शय मयि स्थिते
विश्वामित्रस्तथा चोक्तो वसिष्ठेन नराधिपः। नोवाच किंचिद्व्रीडाढ्यो विद्रावितमहाबलः
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा। विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत्। धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम्
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे। स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा
तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप्तवान्। अपिबच्च ततः सोममिन्द्रेण सह कौशिकः
एवंवीर्यस्तु राजर्षिर्विप्रर्षिः संबभूव ह
ऋष्योस्तु यत्कृते वैरं विश्वामित्रवसिष्ठयोः। बभूव गन्धर्वपते शंस तत्सर्वमेव मे
माहात्म्यं च वसिष्ठस्य ब्राह्मण्यं ब्रह्मतेजसः। विश्वामित्रस्य च तथा क्षत्रस्य च महात्मनः
न शृण्वानस्त्वहं तृप्तिमुपगच्छामि खेचर। आख्याहि गन्धर्वपते शंस तत्सर्वमेव मे
माहात्म्यं च वसिष्ठस्य विश्वामित्रस्य भाषते
इदं वासिष्ठमाख्यानं पुराणं पुण्यमुत्तमम्। पार्थ सर्वेषु लोकेषु विश्रुतं तन्निबोध मे
कल्माषपाद इत्येवं लोके राजा बभूव ह। इक्ष्वाकुवंशजः पार्थ तेजसाऽसदृशो भुवि
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात्। मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः
तस्मिन्वने महाघोरे खङ्गांश्च बहुशोऽहनत्। हत्वा च सुचिरं श्रान्तो राजा निववृते ततः
अकामयत्तं याज्यार्थे विश्वामित्रः प्रतापवान्। स तु राजा महात्मानं वासिष्ठमृषिसत्तमम्
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि। अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम्
शक्तिं नाम महाभागं वसिष्ठकुलवर्धनम्। ज्येष्ठं पुत्रं पुत्रशताद्वसिष्ठस्य महात्मनः
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत्। तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा
मम पन्था महाराज धर्म एष सनातनः। `वृद्धभीरुनृपस्नातस्त्रीरोगिवरचक्रिणाम्