क्रोधरक्तेक्षणा सा गौर्हंभारवघनस्वना। विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः। क्रोधरक्तेक्षणा क्रोधं भूय एव समाददे
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ। अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत्
असृजत्पह्लवान्पुच्छात्प्रस्रवाद्द्राविडाञ्छकान्। योनिदेशाच्च यवानाञ्शकृतः शबरान्बहून्
मूत्रतश्चासृजत्कांश्चिच्छबरांश्चैव पार्श्वतः। पौण्ड्रान्किरातान्यवनान्सिंहलान्बर्बरान्खसान्
चिबुकांश्च पुलिन्दांश्च चीनान्हूणान्सकेरलान्। ससर्ज फेनतः सा गौर्म्लेच्छान्बहुविधानपि
तैर्विसृष्टैर्महासैन्यैर्नानाम्लेच्छगणैस्तदा। नानावरणसंछन्नैर्नानायुधधरैस्तथा
अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः। एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः
अस्त्रवर्षेण महता वध्यमानं बलं तदा। प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः
तस्य तच्चतुरङ्गं वै बलं परमदुःसहम्। प्रभग्नं सर्वतो घोरं पयस्विन्या विनिर्जितम्
न च प्राणैर्वियुज्यन्ते केचित्तत्रास्य सैनिकाः। विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ
सा गौस्तत्सकलं सैन्यं कालयामास दूरतः। विश्वामित्रस्य तत्सैन्यं काल्यमानं त्रियोजनम्
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत। `विश्वामित्रस्ततो दृष्ट्वा क्रोधाविष्टः स रोदसी
ववर्ष शरवर्षाणि वसिष्ठे मुनिसत्तमे। घोररूपांश्च नाराचान्क्षुरान्भल्लान्महामुनिः
विश्वामित्रप्रयुक्तांस्तान्वैणवेन व्यमोचयत्। वसिष्ठस्य तदा दृष्ट्वा कर्मकौशलमाहवे
विश्वामित्रोऽपि कोपेन भूयः शत्रुनिपातनः। दिव्यास्त्रवर्षं तस्मै स प्राहिणोन्मुनये रुषा
आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यमेव च। विससर्ज महाभागे वसिष्ठे ब्रह्मणः सुते
अस्त्राणि सर्वतो ज्वालां विसृजन्ति प्रपेदिरे। युगान्तसमये घोराः पतङ्गस्येव रश्मयः
वसिष्ठोऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया। यष्ट्या निवारयामास सर्वाण्यस्त्राणि स स्मयन्
ततस्ते भस्मसाद्भूताः पतन्ति स्म महीतले। अपोह्य दिव्यान्यस्त्राणि वसिष्ठो वाक्यमब्रवीत्
निर्जितोऽसि महाराज दुरात्मन्गाधिनन्दन। यदि तेऽस्ति परं शौर्यं तद्दर्शय मयि स्थिते
विश्वामित्रस्तथा चोक्तो वसिष्ठेन नराधिपः। नोवाच किंचिद्व्रीडाढ्यो विद्रावितमहाबलः
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा। विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत्। धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम्
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे। स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा
तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप्तवान्। अपिबच्च ततः सोममिन्द्रेण सह कौशिकः
एवंवीर्यस्तु राजर्षिर्विप्रर्षिः संबभूव ह
ऋष्योस्तु यत्कृते वैरं विश्वामित्रवसिष्ठयोः। बभूव गन्धर्वपते शंस तत्सर्वमेव मे
माहात्म्यं च वसिष्ठस्य ब्राह्मण्यं ब्रह्मतेजसः। विश्वामित्रस्य च तथा क्षत्रस्य च महात्मनः
न शृण्वानस्त्वहं तृप्तिमुपगच्छामि खेचर। आख्याहि गन्धर्वपते शंस तत्सर्वमेव मे