स चचार सहामात्यो मृगयां गहने वने। मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः। आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः। विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया
पाद्यार्घ्याचमनीचैस्तं स्वागतेन च भारत। तथैव परिजग्राह वन्येन हविषा तदा
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः। उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः
बाष्पाढ्यस्योदनस्यैव राशयः पर्वतोपमाः। निष्ठानानि च सूपांश्च दधिकुल्यास्तथैव च
कूपांश्च घृतसंपूर्णान्गौड्यान्नानि सहस्रशः। इक्षून्मधूनि लाजांश्च मैरेयांश्च वरासवान्
ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च। षड्रसं चामृतनिभं रसायनमनुत्तमम्
भोजनीयानि पेयानि भक्ष्याणि विविधानि च। लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुना
रत्नानि च महार्हाणि वासांसि विविधानि च। तैः कामैः सर्वसंपूर्णैः पूजितश्च महिपतिः
सामात्यः सबलश्चैव तुतोष स भृशं तदा। षडुन्नतां सुपार्श्वोरुं पृथुपञ्चसमावृताम्
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्। सुवालघिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम्
पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्यताम्। अभिनन्द्य स तां राजा नन्दिनीं गाधिनन्दनः
अब्रवीच्च भृशं तुष्टः स राजा तमृषिं तदा। अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः
नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने
रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः।' क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः
ब्राह्णेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु। अर्बुदेन गवां यस्त्वं न ददासि ममेप्सितम्
स्वधर्मं न प्रहास्यामि नेष्यामि च बलेन गाम्
यथेच्छसि तथा क्षिप्रं कुरु मा त्वं विचारय
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम्। `सा तदा ह्रियमाणा च विश्वामित्रबलैर्बलात्।' कशादण्डप्रणुदिता काल्यमाना इतस्ततः
हंभायमाना कल्याणी वसिष्ठस्याथ नन्दिनी। आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः
ह्रियसे त्वं बलाद्भद्रे विश्वामित्रेण नन्दिनि। किं कर्तव्यं मया तत्र क्षमावान्ब्राह्मणो ह्यहम्
सा भयान्नन्दिनी तेषां बलानां भरतर्षभ। विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत्
कशाग्रदण्डाभिहतां क्रोशन्तीं मामनाथवत्। विश्वामित्रबलैर्घोरैर्भगवन् किमुपेक्षसे
एवं तस्यां तदा पार्थ धर्षितायां महामुनिः। न चुक्षुभे तदा धैर्यान्न चचाल धृतव्रतः
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम्। क्षमा मां भजते यस्माद्गम्यतां यदि रोचते
किं नु त्यक्ताऽस्मि भगवन्यदेवं त्वं प्रभाषसे। अत्यक्ताऽहं त्वया ब्रह्मन्नेतुं शक्या न वै बलात्
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते। दृढेन दाम्ना बद्ध्वैष वत्सस्ते हियते बलात्
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी। ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ रौद्रदर्शना