स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ। अर्जुनः परया भक्त्या पूर्णचन्द्र इवाबभौ
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः। जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात्
वसिष्ठ इति तस्यैतदृषेर्नाम त्वयेरितम्। एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः। आसीदेतन्ममाचक्ष्व क एष भगवानृषिः
ब्रह्मणो मानसः पुत्रो वसिष्ठोऽरुन्धतीपतिः। तपसा निर्जितौ शश्वदजेयावमरैरपि
कामक्रोधावुभौ यस्य चरणौ समुवाहतुः। इन्द्रियाणां वशकरो वशिष्ठ इति चोच्यते
यथा कामश्च क्रोधश्च निर्जितावजितौ नरैः। जितारयो जिता लोकाः पन्थानश्च जिता दिशः
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः। विश्वामित्रापराधेन धारयन्मन्युमुत्तमम्
पुत्रव्यसनसंतप्तः शक्तिमानप्यशक्तवत्। विश्वामित्रविनाशाय न चक्रे कर्म दारुणम्
मृतांश्च पुनराहर्तुं शक्तः पुत्रान्यमक्षयात्। कृतान्तं नातिचक्राम वेलामिव महोदधिः
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः। इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम्
पुरोहितमिमं प्राप्य वसिष्ठमृषिसत्तमम्। ईजिरे क्रतुभिश्चैव नृपास्ते कुरुनन्दन
स हि तान्याजयामास सर्वान्नृपतिसत्तमान्। ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान्
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः। ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रतिदृश्यताम्
क्षत्रियेणाभिजातेन पृथिवीं जेतुमिच्छता। पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःस्कृतम्। तस्मात्पुरोहितः कश्चिद्गुणवान्विजितेन्द्रियः। विद्वान्भवतु वो विप्रो धर्मकामार्थतत्त्ववित्
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः। वसतोराश्रमे दिव्ये शंस नः सर्वमेव तत्
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते। पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे
कान्यकुब्जे महानासीत्पार्थिवो भरतर्षभ। गाधीति विश्रुतो लोके कुशिकस्यात्मसंभवः
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः। विश्वामित्र इति ख्यतो बभूव रिपुमर्दनः
स चचार सहामात्यो मृगयां गहने वने। मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः। आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः। विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया
पाद्यार्घ्याचमनीचैस्तं स्वागतेन च भारत। तथैव परिजग्राह वन्येन हविषा तदा
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः। उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः
बाष्पाढ्यस्योदनस्यैव राशयः पर्वतोपमाः। निष्ठानानि च सूपांश्च दधिकुल्यास्तथैव च
कूपांश्च घृतसंपूर्णान्गौड्यान्नानि सहस्रशः। इक्षून्मधूनि लाजांश्च मैरेयांश्च वरासवान्
ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च। षड्रसं चामृतनिभं रसायनमनुत्तमम्
भोजनीयानि पेयानि भक्ष्याणि विविधानि च। लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुना
रत्नानि च महार्हाणि वासांसि विविधानि च। तैः कामैः सर्वसंपूर्णैः पूजितश्च महिपतिः