एवं तां स महीपालो बभाषे न तु सा तदा। कामार्तं निर्जनेऽरण्ये प्रत्यबाषथ किंचन
ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा। सौदामिनीव चाभ्रेषु तत्रैवान्तरधीयत
तामन्वेष्टुं स नृपतिः परिचक्राम सर्वतः। वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा
अपश्यमानः स तु तां बहु तत्र विलप्य च। निश्चेष्टः पार्थिवश्रेष्ठो मुहूर्तं स व्यतिष्ठत
अथ तस्यामदृश्यायां नृपतिः काममोहितः। पातनः शत्रुसङ्घानां पपात धरणीतले
तस्मिन्निपतिते भूमावथ सा चारुहासिनी। पुनः पीनायतश्रोणी दर्शयामास तं नृपम्
अथाबभाषे कल्याणी वाचा मधुरया नृपम्। तं कुरूणां कुलकरं कामाभिहतचेतसम्
उवाच मधुरं वाक्यं तपती हसतीव सा। उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिन्दम
मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ। एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा
ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम्। अथ तामसितापाङ्गीमाबभाषे स पार्थिवः
मन्मथाग्निपरीतात्मा सन्दिग्धाक्षरया गिरा। साधु त्वमसितापाङ्गि कामार्तं मत्तकाशिनि
भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम्। त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः
कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति। दष्टमेवमनाक्रन्दे भद्रे काममहाहिना
सा त्वं पीनायतश्रोणी मामाप्नुहि वरानने। त्वदधीना हि मे प्राणाः किन्नरोद्गीतभाषिणि
चारुसर्वानवद्याङ्गि पद्मेन्दुप्रतिमानने। न ह्यहं त्वदृते भीरु शक्ष्यामि खलु जीवितुम्
कामः कमलपत्राक्षि प्रतिविध्यति मामयम्। तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने
भक्तं मामसितापाङ्गि न परित्यक्तुमर्हसि। त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि
त्वद्दर्शनकृतस्नेहं मनश्चलति मे भृशम्। न त्वां दृष्ट्वा पुनश्चान्यां द्रष्टुं कल्याणि रोचते
प्रसीद वशगोऽहं ते भक्तं मां भज भामिनि। दृष्ट्वैव त्वां वरारोहे मन्मथो भृशमङ्गने
अन्तर्गतं विशालाक्षि विध्यति स्म पतत्त्रिभिः। मन्मथाग्निसमुद्भूतं दाहं कमललोचने
प्रीतिसंयोगयुक्ताभिरद्भिः प्रह्लादयस्व मे। पुष्पायुधं दुराधर्षं प्रचण्डशरकार्मुकम्
त्वद्दर्शनसमुद्भूतं विध्यन्तं दुःसहैः शरैः। उपशामय कल्याणि आत्मदानेन भामिनि
गान्धर्वेण विवाहेन मामुपैहि वराङ्गने। विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते
नाहमीशाऽऽत्मनो राजन्कन्या पितृमती ह्यहम्। मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम
यथा हि ते मया प्राणाः संभृताश्च नरेश्वर। दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम। समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम्। कन्या नाभिलषेन्नाथं भार्तारं भक्तवत्सलम्
तस्मादेवं गते काले याचस्व पितरं मम। आदित्यं प्रणिपातेन तपसा नियमेन च
स चेत्कामयते दातुं तव मामरिसूदन। भविष्याम्यद्य ते राजन्सततं वशवर्तिनी
अहं हि तपती नाम सावित्र्यवरजा सुता। अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ