स कदाचिदथो राजा श्रीमानमितविक्रमः। चचार मृगयां पार्थ पर्वतोपवने किल
चरतो मृगयां तस्य क्षुत्पिपासासमन्वितः। ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः। ददर्शासदृशीं लोके कन्यामायतलोचनाम्
स एव एकामासाद्य कन्यां परबलार्दनः। तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः
स हि तां तर्कयामास रूपतो नृपतिः श्रियम्। पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम्
वपुषा वर्चसा चैव शिखामिव विभावसोः। प्रसन्नत्वेन कान्त्या च चन्द्ररेखामिवामलाम्
गिरिपृष्ठे तु सा यस्मिन्स्थिता स्वसितलोचना। विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी
तस्या रूपेण स गिरिर्वेषेण च विशेषतः। ससवृक्षक्षुपलतो हिरण्मय इवाभवत्
अवमेने च तां दृष्ट्वा सर्वलोकेषु योषितः। अवाप्तं चात्मनो मेने स राजा चक्षुषः फलं
जन्मप्रभृति यत्किचिंद्दृष्टवान्स महीपतिः। रूपं न सदृशं तस्यास्तर्कयामास किंचन
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा। न चचाल ततो देशाद्बुबुधे न च किंचन
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम्। लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम्
एवं संतर्कयामास रूपद्रविणसंपदा। कन्यामसदृशीं लोके नृपः संवरणस्तदा
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः। जगाम मनसा चिन्तां कामबाणेन पीडितः
दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना। अप्रगल्भां प्रगल्भस्तां तदोवाच मनोहराम्
काऽसि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि। कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता। विभूषणमिवैतेषां भूषणानामभीप्सितम्
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम्। न च भोगवतीं मन्ये न गन्धवीं न मानुषीम्
या हि दृष्टा मया काश्चिच्छ्रुता वाऽपि वराङ्गनाः। न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि
दृष्ट्वैव चारुवदने चन्द्रात्कान्ततरं तव। वदनं पद्मपत्राक्षं मां मथ्नातीव मन्मथः
एवं तां स महीपालो बभाषे न तु सा तदा। कामार्तं निर्जनेऽरण्ये प्रत्यबाषथ किंचन
ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा। सौदामिनीव चाभ्रेषु तत्रैवान्तरधीयत
तामन्वेष्टुं स नृपतिः परिचक्राम सर्वतः। वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा
अपश्यमानः स तु तां बहु तत्र विलप्य च। निश्चेष्टः पार्थिवश्रेष्ठो मुहूर्तं स व्यतिष्ठत
अथ तस्यामदृश्यायां नृपतिः काममोहितः। पातनः शत्रुसङ्घानां पपात धरणीतले
तस्मिन्निपतिते भूमावथ सा चारुहासिनी। पुनः पीनायतश्रोणी दर्शयामास तं नृपम्
अथाबभाषे कल्याणी वाचा मधुरया नृपम्। तं कुरूणां कुलकरं कामाभिहतचेतसम्
उवाच मधुरं वाक्यं तपती हसतीव सा। उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिन्दम
मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ। एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा
ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम्। अथ तामसितापाङ्गीमाबभाषे स पार्थिवः