संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम्। `द्व्यष्टवर्षां तु तां श्यामां सविता रूपशालिनीम्।' नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन्
अथर्क्षपुत्रः क्रान्तेय कुरूणामृषभो बली। सूर्यमाराधयामास नृपः संवरणस्तदा
अर्ध्यमाल्योपहाराद्यैर्गन्धैश्च नियतः शुचिः। नियमैरुपवासैश्च तपोभिर्विविधैरपि
सुश्रूषुरनहंवादी शुचिः पौरवनन्दन। अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान्
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि। तपत्याः सदृशं मेने सूर्यः संवरणं पतिम्
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम्। नृपोत्तमाय कौरव्य विश्रुताभिजनाय च
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा। तथा भुवि महिपालो दीप्त्या संवरणोऽभवत्
यथाऽर्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः। तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः
स सोममति कान्तत्वादादित्यमति तेजसा। बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि
एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव। तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम्
स कदाचिदथो राजा श्रीमानमितविक्रमः। चचार मृगयां पार्थ पर्वतोपवने किल
चरतो मृगयां तस्य क्षुत्पिपासासमन्वितः। ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः। ददर्शासदृशीं लोके कन्यामायतलोचनाम्
स एव एकामासाद्य कन्यां परबलार्दनः। तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः
स हि तां तर्कयामास रूपतो नृपतिः श्रियम्। पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम्
वपुषा वर्चसा चैव शिखामिव विभावसोः। प्रसन्नत्वेन कान्त्या च चन्द्ररेखामिवामलाम्
गिरिपृष्ठे तु सा यस्मिन्स्थिता स्वसितलोचना। विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी
तस्या रूपेण स गिरिर्वेषेण च विशेषतः। ससवृक्षक्षुपलतो हिरण्मय इवाभवत्
अवमेने च तां दृष्ट्वा सर्वलोकेषु योषितः। अवाप्तं चात्मनो मेने स राजा चक्षुषः फलं
जन्मप्रभृति यत्किचिंद्दृष्टवान्स महीपतिः। रूपं न सदृशं तस्यास्तर्कयामास किंचन
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा। न चचाल ततो देशाद्बुबुधे न च किंचन
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम्। लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम्
एवं संतर्कयामास रूपद्रविणसंपदा। कन्यामसदृशीं लोके नृपः संवरणस्तदा
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः। जगाम मनसा चिन्तां कामबाणेन पीडितः
दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना। अप्रगल्भां प्रगल्भस्तां तदोवाच मनोहराम्
काऽसि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि। कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता। विभूषणमिवैतेषां भूषणानामभीप्सितम्
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम्। न च भोगवतीं मन्ये न गन्धवीं न मानुषीम्
या हि दृष्टा मया काश्चिच्छ्रुता वाऽपि वराङ्गनाः। न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि
दृष्ट्वैव चारुवदने चन्द्रात्कान्ततरं तव। वदनं पद्मपत्राक्षं मां मथ्नातीव मन्मथः