ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि। यस्मात्तस्मादहं पार्थ रणे।ञस्मि विजितस्त्वया
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप। नक्तं च युधि युध्येत न स जीवेत्कथंचन
यस्तु स्यात्कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः। जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः
तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम्। तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः। धर्मात्यागः कृतात्मानः स्युर्नृपाणां पुरोहिताः
जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम्। यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः
लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम्। पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम्
पुरोहितमते तिष्ठेद्य इच्छेद्भूतिमात्मनः। प्राप्तुं वसुमतीं सर्वां सर्वशः सागराम्बराम्
न हि केवलशौर्येण तापत्याभिजनेन च। जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित्
तस्मादेवं विजानीहि कुरूणां वंशवर्धन। ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम्
तापत्य इति यद्वाक्यमुक्तवानसि मामिह। तदहं ज्ञातुमिच्छामि तापत्यार्थं विनिश्चितम्
तपती नाम का चैषा तापत्या यत्कृते वयम्। कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम्
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम्। विश्रुतं त्रिषु लोकेषु श्रावयामास वै कथाम्
हन्त ते कथयिष्यामि कथामेतां मनोरमाम्। यथावदखिलां पार्थ सर्वबुद्धिमतां वर
उक्तवानस्मि येन त्वां तापत्य इति यद्वचः। तत्तेऽहं कथयिष्यामि शृणुष्वैकमना भव
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा। एतस्य तपती नाम बभूव सदृशी सुता
विवस्वतो वै देवस्य सावित्र्यवरजा विभो। विश्रुता त्रिषु लोकेषु तपती तपसा युता
न देवी नासुरी चैव न यक्षी न च राक्षसी। नाप्सरा न च गन्धर्वी तथा रूपेण काचन
सुविभक्तानवद्याङ्गी स्वसितायतलोचना। स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी
त तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत। भर्तारं सविता मेने रूपशीलगुणश्रुतैः
संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम्। `द्व्यष्टवर्षां तु तां श्यामां सविता रूपशालिनीम्।' नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन्
अथर्क्षपुत्रः क्रान्तेय कुरूणामृषभो बली। सूर्यमाराधयामास नृपः संवरणस्तदा
अर्ध्यमाल्योपहाराद्यैर्गन्धैश्च नियतः शुचिः। नियमैरुपवासैश्च तपोभिर्विविधैरपि
सुश्रूषुरनहंवादी शुचिः पौरवनन्दन। अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान्
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि। तपत्याः सदृशं मेने सूर्यः संवरणं पतिम्
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम्। नृपोत्तमाय कौरव्य विश्रुताभिजनाय च
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा। तथा भुवि महिपालो दीप्त्या संवरणोऽभवत्
यथाऽर्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः। तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः
स सोममति कान्तत्वादादित्यमति तेजसा। बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि
एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव। तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम्