यच्चक्षुषा द्रष्टुमिच्छेत्रिषु लोकेषु किंचन। तत्पश्येद्यादृशं चेच्छेत्तादृशं द्रष्टुमर्हति
एकपादेन षण्मासान्स्थितो विद्यां लभेदिमाम्। अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः। अविशिष्टाश्च देवानामनुभावप्रदर्शिनः
गन्धर्वजानामश्वानामहं पुरुषसत्तम। भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतं
देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः। क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम्। दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि
ततो भागीकृतो देवैर्वज्रभाग उपास्यते। लोके यशोधनं किंचित्सैव वज्रतनुः स्मृता
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम्। वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः
क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः। रथाङ्गं वडबा सूते शूराश्चाश्वेषु ये मताः
कामवर्णाः कामजवाः कामतः समुपस्थिताः। इति गन्धर्वजाः कामं पूरयिष्यन्ति मे हयाः
यदि प्रीतेन मे दत्तं संशये जीवितस्य वा। विद्याधं श्रुतं वाऽपि न तद्गन्धर्व रोचये
संयोगो वै प्रीतिकरो महत्सु प्रतिदृश्यते। जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते
त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम्। तथैव योग्यं बीभत्सो चिराय मरतर्षभ
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शास्वतोऽस्तुनौ। सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं भवेत्
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः। यान्तो वेदविदः सर्वे सन्तो रात्रावरिन्दमाः
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः। यूयं ततो धर्षिताः स्थ मया वै पाण्डुनन्दनाः
यक्षराक्षसगन्धर्वपिशाचपतगोरगाः। धर्षन्ति नरव्याघ्र न ब्राह्मणपुरस्कृतान्
जानतापि मया तस्मात्तेजश्चाभिजनं च वः। इयमग्निमतां श्रेष्ठ धर्षिता वै पुरागतिः
को हि वस्त्रिषु लोकेषु न वेद भरतर्षभ। स्वैर्गुणैर्विस्तृतं श्रीमद्यशोऽग्र्यं भूरिवर्चसाम्
यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः। विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते
नारदप्रभृतीनां तु देवर्षीणां मया श्रुतम्। गुणान्कथयतां वीर पूर्वेषां तव धीमताम्
स्वयं चापि मया दृष्टश्चरता सागराम्बराम्। इमां वसुमतीं कृत्स्नां प्रभावः सुकुलस्य ते
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन। विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम्
सर्ववेदविदां श्रेष्ठं सर्वशस्त्रभृतां वरम्। द्रोणमिष्वस्त्रकुशलं धनुष्यह्गिरसां वरम्
धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा। पाण्डुं च कुरुशार्दूल षडेतान्कुरुवर्धनान्। पितॄनेतानहं पार्थ देवमानुषसत्तमान्
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः। भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः
उत्तमां च मनोबुद्धिं भवतां भावितात्मनाम्। जानन्नपि च वः पार्थ कृतवानिह धर्षणाम्
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति। धर्षणामात्मनः पश्यन्ब्राहुद्रविणमाश्रितः
नक्तं च बलमस्माकं भूय एवाभिवर्धते। यतस्ततो मां कौन्तेय सदारं मन्युराविशत्
सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन। येन तेनेह विधिना कीर्त्यमानं निबोध मे