स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्। तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्। स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः
केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षवे। न हि त्वा वेद तद्रक्षो मद्भार्यां चारुहासिनीम्
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा। बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता। ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव
साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता। भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्। शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्। किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति
धर्मे प्रयतमानस्य सत्यं च वदतः समम्। पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम
पृष्टो हिसाक्षीयः साक्ष्यं जानानोऽप्यन्यथा वदेत्। स पूर्वानात्मनः सप्त कुले हन्यात्तथाऽपरान्
यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते। सोऽपि तेनैव पापेन लिप्यते नात्र संशयः
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम। जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्
योगेन बहुधाऽऽत्मानं कृत्वा तिष्ठामि मूर्तिषु। अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च
वेदोक्तेन विधानेन मयि यद्धूयते हविः। देवताः पितरश्चैव तेन तृप्ता भवन्ति वै
आपो देवगणाः सर्वे आपः पितृगणास्तथा। दर्शश्च पौर्णमासश्च देवानां पितृभिः सह
देवताः पितरस्तस्मात्पितरश्चापि देवताः। एकीभूताश्च दृश्यन्ते पृथक्त्वेन च पर्वसु
देवताः पितरश्चैव भुञ्जते मयि यद्भुतम्। देवतानां पितॄणां च मुखमेतदहं स्मृतम्
अमावास्यां हि पितरः पौर्णमास्यां हि देवताः। मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम्
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च। निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः
विनाऽग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः। अथर्षयः समुद्विग्ना देवान् गत्वाब्रुवन्वचः
अग्निनाशात्क्रियाभ्रांशाद्भ्रान्ता लोकास्त्रयोऽनघाः। विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु। अग्नेरावेदयञ्शापं क्रियासंहारमेव च
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे। कथं देवमुखो भूत्वा यज्ञभागाग्रभुक् तथा
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्। लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः। स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः
कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशेन। त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि। अपाने ह्यर्चिषो यास्ते सर्वं भक्ष्यन्ति ताः शिखिन्
क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति। यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति। त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्