त्रायस्व मां महाभाग पतिं चेमं विमुञ्च मे। गन्धर्वी शरणं प्राप्ता नाम्ना कुम्भीनसी प्रभो
युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम्। को निहन्याद्रिपुं तात मुञ्चेमं रिपुसूदन
जीवितं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः। प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम्। यशोहीनं न च श्लाघ्यं स्वं नाम जनसंसदि
साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम्। गान्धर्व्या माययेच्छामि संयोजयितुमर्जुनम्
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः। सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवं
संभृता चैव विद्येयं तपसेह मया पुरा। निवेदयिष्ये तामद्य प्राणदाय महात्मने
संस्तम्भयित्वा तरसा जितं शरणमागतम्। यो रिपुं योजयेत्प्राणैः कल्याणं किं न सोऽर्हति
चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः। ददौ स विश्वावसवे मम विश्वावसुर्ददौ
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति। आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे
यच्चक्षुषा द्रष्टुमिच्छेत्रिषु लोकेषु किंचन। तत्पश्येद्यादृशं चेच्छेत्तादृशं द्रष्टुमर्हति
एकपादेन षण्मासान्स्थितो विद्यां लभेदिमाम्। अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः। अविशिष्टाश्च देवानामनुभावप्रदर्शिनः
गन्धर्वजानामश्वानामहं पुरुषसत्तम। भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतं
देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः। क्षीणाक्षीणा भवन्त्येते न हीयन्ते च रंहसः
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम्। दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि
ततो भागीकृतो देवैर्वज्रभाग उपास्यते। लोके यशोधनं किंचित्सैव वज्रतनुः स्मृता
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम्। वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः
क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः। रथाङ्गं वडबा सूते शूराश्चाश्वेषु ये मताः
कामवर्णाः कामजवाः कामतः समुपस्थिताः। इति गन्धर्वजाः कामं पूरयिष्यन्ति मे हयाः
यदि प्रीतेन मे दत्तं संशये जीवितस्य वा। विद्याधं श्रुतं वाऽपि न तद्गन्धर्व रोचये
संयोगो वै प्रीतिकरो महत्सु प्रतिदृश्यते। जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते
त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम्। तथैव योग्यं बीभत्सो चिराय मरतर्षभ
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शास्वतोऽस्तुनौ। सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं भवेत्
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः। यान्तो वेदविदः सर्वे सन्तो रात्रावरिन्दमाः
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः। यूयं ततो धर्षिताः स्थ मया वै पाण्डुनन्दनाः
यक्षराक्षसगन्धर्वपिशाचपतगोरगाः। धर्षन्ति नरव्याघ्र न ब्राह्मणपुरस्कृतान्
जानतापि मया तस्मात्तेजश्चाभिजनं च वः। इयमग्निमतां श्रेष्ठ धर्षिता वै पुरागतिः
को हि वस्त्रिषु लोकेषु न वेद भरतर्षभ। स्वैर्गुणैर्विस्तृतं श्रीमद्यशोऽग्र्यं भूरिवर्चसाम्
यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः। विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते