प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः।। तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम्। तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान्। विष्फारयन्धनुर्घोरमिदं वचनमब्रवीत्
सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या। अशीतिभिर्लवैर्हीनं तन्मुहूर्तं प्रचक्षते
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्। शेषमन्यन्मनुष्याणां कर्मचारेषु वै स्मृतम्
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान्। उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान्
अतो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः। गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि
आराच्च तिष्ठतास्माकं समीपं नोपसर्पत। कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम्। अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा
अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम। अनुगङ्गं चरन्कामांश्चित्रं यत्र रमाम्यहम्
न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः। कुबेरस्य यथोष्णीषं किं मां समुपसर्पथ
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते। रात्रावहनि सन्ध्यायां कस्य क्लृप्तः परिग्रहः
भुक्तो वाऽप्यथ वाऽभुक्तो रात्रावहनि खेचर। न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वरां
वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम। अशक्ता हि रणे क्रूर युष्मानर्चन्ति मानवाः
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता। गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यत
गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम्। रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा
अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये। इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम्। तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः। गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत्
असम्बाधा देवनदी स्वर्गसंपादनी शुभा। कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः
अनिवार्यमसम्बाधं तव वाचा कथं वयम्। न स्पृशेम यथाकामं पुण्यं भागीरथीजलम्
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनाम्य कार्मुकम्। मुमोच बाणान्निशितानहीनाशीविषानिव
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तरम्। व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः
बिभीषिका वै गन्धर्व नास्त्रज्ञेषु प्रयुज्यते। अस्त्रज्ञेषु प्रयुक्तेयं फेनवत्प्रविलीयते
मानुषानति गन्धर्वान्सर्वान् गन्धर्व लक्षये। तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया
पुराऽस्त्रमिमाग्नेयं प्रादात्किल बृहस्पतिः। भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः
भरद्वजादग्निवेश्य अग्निवेश्याद्गुरुर्मम। साध्विदं मह्यमददद्द्रोणो ब्राह्मणसत्तमः
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह। प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत्
विरथं विप्लुतं तं तु स गन्धऱ्वं महाबलः। अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम्
शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः। भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम्
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी। नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती