प्रतिलप्स्यामहे सर्वं दृष्ट्वा कृष्णां स्वयंवरे। यं च सा क्षत्रियं रङ्गे कुमारी वरयिष्यति
तदा वैतालिकाश्चैव नर्तकाः सूतमागधाः। निबोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः
एतत्कौतूहलं तत्र दृष्ट्वा वै प्रतिगृह्य च। सहास्माभिर्महात्मानो मात्रा सह निवत्स्यथ
दर्शनीयांश्च वः सर्वानेकरूपानवस्थितान्। समीक्ष्य कृष्मा वरयेत्संगत्यान्यतमं पतिम्
अयमेकश्च वो भ्राता दर्शनीयो महाभुजः। नियुध्यमानो विजयेत्संगत्य द्रविणं महत्
परमं भो गमिष्यामो द्रष्टुं तत्र स्वयंवरम्। द्रौपदीं यज्ञसेनस्य कन्यां तस्यास्तथोत्सवम्
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः। समैरुदङ्मुकैर्मार्गैर्यथोद्दिष्टं च भारत
अहोरात्रेणाभ्यगच्छन्पाञ्चालनगरं प्रति। अभ्याजग्मुर्लोकनदीं गङ्गां भागीरथीं प्रति
चन्द्रास्तमयवेलायामर्धरात्रसमागमे। वारि चैवानुमज्जन्तस्तीर्थं सोमाश्रयायणम्
आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः।। उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः
प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः।। तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम्। तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान्। विष्फारयन्धनुर्घोरमिदं वचनमब्रवीत्
सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या। अशीतिभिर्लवैर्हीनं तन्मुहूर्तं प्रचक्षते
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्। शेषमन्यन्मनुष्याणां कर्मचारेषु वै स्मृतम्
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान्। उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान्
अतो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः। गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि
आराच्च तिष्ठतास्माकं समीपं नोपसर्पत। कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम्। अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा
अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम। अनुगङ्गं चरन्कामांश्चित्रं यत्र रमाम्यहम्
न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः। कुबेरस्य यथोष्णीषं किं मां समुपसर्पथ
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते। रात्रावहनि सन्ध्यायां कस्य क्लृप्तः परिग्रहः
भुक्तो वाऽप्यथ वाऽभुक्तो रात्रावहनि खेचर। न कालनियमो ह्यस्ति गङ्गां प्राप्य सरिद्वरां
वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम। अशक्ता हि रणे क्रूर युष्मानर्चन्ति मानवाः
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता। गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यत
गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम्। रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा
अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये। इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम्। तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः। गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत्
असम्बाधा देवनदी स्वर्गसंपादनी शुभा। कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः
अनिवार्यमसम्बाधं तव वाचा कथं वयम्। न स्पृशेम यथाकामं पुण्यं भागीरथीजलम्