तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः। प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत्। प्रच्छन्नं पूजितः पार्थैः प्रीतिपूर्वमिदं वचः
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः। अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः। विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत्
आसीत्तपोवने काचिदृषेः कन्या महात्मनः। विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत। नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः। तोषयामास तपसा सा किलोग्रेण शङ्करम्
तस्याः स भगवांस्तुष्टस्तामुवाच यशस्विनीम्। वरं वरय भद्रं ते वरदोऽस्मीति शङ्करः
अथेश्वरमुवाचेदमात्मनः सा वचो हितम्। पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः
तामथ प्रत्युवाचेदमीशानो वदतां वरः। पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः
एवमुक्ता ततः कन्या देवं वरदमब्रवीत्। एकमिच्छाम्यहं देव त्वत्प्रसादात्पतिं प्रभो
पुनरेवाब्रवीद्देव इदं वचनमुत्तमम्। पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः
द्रुपदस्य कुले जज्ञे सा कन्या देवरूपिणी
निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता। पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः। सुखिनस्तामनुप्राप्य भविष्यथ न संशयः
एवमुक्त्वा महाभागः पाण्डवान्स पितामहः। पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः
गते भगवति व्यासे पाण्डवा हृष्टमानसाः। `ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः
ब्राह्मणान्गच्छतो पश्यन्पाञ्चालान्सगणान्पथि। अथ ते ब्राह्मणा ऊचुः पाण्डवान्ब्रह्मचारिणः
क्व भवन्तो गमिष्यन्ति कुतो वाऽऽगच्छथेति ह
भवन्तो नोऽभिजानन्तु सहितान्ब्रह्मचारिणः। गच्छतो नस्तु पाञ्चालान्द्रुपदस्य पुरं प्रति
इच्छामो भवतो ज्ञातुं परं कौतूहलं हि नः
एते सार्धं प्रयाताः स्मो वयमप्यत्र गामिनः। तत्राप्यद्भुतसङ्काश उत्सवो भविता महान्
ततस्तु यज्ञसेनस्य द्रुपदस्य महात्मनः। यासावयोनिजा कन्या स्थास्यते सा स्वयंवरे
दर्शनीयाऽनवद्याङ्गी सुकुमारी यशस्विनी। धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः
जातो यः पावकाच्छूरः सशरः सशरासनः। सुसमिद्धान्महाभागः सोमकानां महारथः
यस्मिन्संजायमाने हि वागुवाचाशरीरिणी। एष मृत्युश्च शिष्यश्च भारद्वाजस्य जायते
स्वसा तस्य तु वेद्याश्च जाता तस्मिन्महामखे। स्त्रीरत्नमसितापाङ्गी श्यामा नीलोत्पलद्युतिः
तां यज्ञसेनस्य सुतां द्रौपदीं परमां स्त्रियम्। गच्छामस्तत्र वै द्रष्टुं तं चैवास्याः स्वयंवरम्
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः। स्वाध्यायवन्तः शुचयो महात्मानो धृतव्रताः
तरुणा दर्शनीयाश्च बलवन्तो दुरासदाः। महारथाः कृतास्त्राश्च समेष्यन्तीह भूमिपाः
ते तत्र विविधं दानं विजयार्थं नरेश्वराः। प्रदास्यन्ति धनं गाश्च भक्ष्यभोज्यानि सर्वशः