देवगन्धर्वयक्षाश्च ऋषयश्च तपोधनाः। स्वयंवरं द्रष्टुकामा गच्छन्त्येव न संशयः
तव पुत्रा महात्मानो दर्शनीयो विशेषतः। यदृच्छया सा पाञ्चाली गच्छेद्वान्यतमं पतिम्
को हि जानाति लोकेषु प्रजापतिमतं शुभण्। तस्मात्सपुत्रा गच्छेथा यदि ब्राह्मणि रोचते
नित्यकालं सुभिक्षास्ते पाञ्चालास्तु तपोधने। यज्ञसेनस्तु राजा स ब्रह्मण्यः सत्यसङ्गरः
ब्रह्मण्या नागराः सर्वे ब्राह्मणाश्चातिथिप्रियाः। नित्यकालं प्रदास्यन्ति आमन्त्रणमयाचितम्
अहं च तत्र गच्छामि ममैभिः सह शिष्यकैः। एकसार्थाः प्रयाताः स्मो ब्राह्मण्या यदि रोचते
एतावदुक्त्वा वचनं ब्राह्मणो विरराम ह
एतच्छ्रुत्वा ततः सर्वे पाण्डवा भरतर्षभ। मनसा द्रौपदीं जग्मुरनङ्गशरपीडिताः
ततस्तां रजनीं राजञ्छल्यविद्धा इवाभवन्। सर्वे चास्वस्थमनसो बभूवुस्ते महाबलाः
ततः कुन्ती सुतान्दृष्ट्वा सर्वांस्तद्गतचेतसः। युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने। रममाणाः पुरे रम्ये लब्धभैक्षा महात्मनः
यानीह रमणीयानि वनान्युपवनानि च। सर्वाणि तानि दृष्टानि पुनःपुनररिन्दम
पुनर्दृष्टानि तानीह प्रीणयन्ति न नस्तथा। भैक्षं च न तथा वीर लभ्यते कुरुनन्दन
ते वयं साधु पञ्चालान्गच्छाम यदि मन्यसे। अपूर्वदर्शनं वीर रमणीयं भविष्यति
सुभिक्षाश्चैव पञ्चालाः श्रूयन्ते शत्रुकर्शन। यज्ञसेनश्च राजाऽसौ ब्रह्मण्य इति सुश्रुम
एकत्र चिरवासश्च क्षमो न च मतो मम। ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे
भवत्या यन्मतं कार्यं तदस्माकं परं हितम्। अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा। उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा
तत आमन्त्र्य तं विप्रं कुन्ती राजसुतैः सह। प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु। आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः। प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत्। प्रच्छन्नं पूजितः पार्थैः प्रीतिपूर्वमिदं वचः
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः। अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः। विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत्
आसीत्तपोवने काचिदृषेः कन्या महात्मनः। विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत। नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः। तोषयामास तपसा सा किलोग्रेण शङ्करम्
तस्याः स भगवांस्तुष्टस्तामुवाच यशस्विनीम्। वरं वरय भद्रं ते वरदोऽस्मीति शङ्करः
अथेश्वरमुवाचेदमात्मनः सा वचो हितम्। पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः
तामथ प्रत्युवाचेदमीशानो वदतां वरः। पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः