वृद्धानुशासने सक्ताः पाण्डवा धर्मचारिणः। तादृशा न विनश्यन्ति नैव यान्ति पराभवम्
मया दृष्टमिदं सत्यं शृणु त्वं मनुजाधिप। ब्राह्मणैः कथितं सत्यं वेदेषु च मया श्रुतम्
बृहस्पतिमतेनाथ पौलोम्या च पुरा श्रुतम्। नष्ट हन्द्रो बिसग्रन्थ्यामुपश्रुत्या हि दर्शितः
उपश्रुतिर्महाराज पाण्डवार्थे मया श्रुता। यत्रकुत्रापि जीवन्ति पाण्डवास्ते न संशयः
मया दृष्टानि लिङ्गानि इहैवैष्यन्ति पाण्डवाः। यन्निमित्तमिहायान्ति तच्छृणुष्व नराधिप
स्वयंवरः क्षत्रियाणां कन्यादाने प्रदर्शितः। स्वयंवरस्तु नगरे घुष्यतां राजसत्तम
यत्र वा निवसन्तस्ते पाण्डवाः पृथया सह। दूरस्था वा समीपस्था स्वर्गस्था वाऽपि पाण्डवाः
श्रुत्वा स्वयंवरं राजन्समेष्यन्ति न संशयः। तस्मात्स्वयंवरो राजन्घुष्यतां मा चिरं कृथाः
श्रुत्वा पुरोहितेनोक्तं पाञ्चालः प्रीतिमांस्तदा। घोषयामास नगरे द्रौपद्यास्तु स्वयंवरम्
पुष्यमासे तु रोहिण्यां शुक्लपक्षे शुभे तिथौ। दिवसैः पञ्चसप्तत्या भविष्यति न संशयः
देवगन्धर्वयक्षाश्च ऋषयश्च तपोधनाः। स्वयंवरं द्रष्टुकामा गच्छन्त्येव न संशयः
तव पुत्रा महात्मानो दर्शनीयो विशेषतः। यदृच्छया सा पाञ्चाली गच्छेद्वान्यतमं पतिम्
को हि जानाति लोकेषु प्रजापतिमतं शुभण्। तस्मात्सपुत्रा गच्छेथा यदि ब्राह्मणि रोचते
नित्यकालं सुभिक्षास्ते पाञ्चालास्तु तपोधने। यज्ञसेनस्तु राजा स ब्रह्मण्यः सत्यसङ्गरः
ब्रह्मण्या नागराः सर्वे ब्राह्मणाश्चातिथिप्रियाः। नित्यकालं प्रदास्यन्ति आमन्त्रणमयाचितम्
अहं च तत्र गच्छामि ममैभिः सह शिष्यकैः। एकसार्थाः प्रयाताः स्मो ब्राह्मण्या यदि रोचते
एतावदुक्त्वा वचनं ब्राह्मणो विरराम ह
एतच्छ्रुत्वा ततः सर्वे पाण्डवा भरतर्षभ। मनसा द्रौपदीं जग्मुरनङ्गशरपीडिताः
ततस्तां रजनीं राजञ्छल्यविद्धा इवाभवन्। सर्वे चास्वस्थमनसो बभूवुस्ते महाबलाः
ततः कुन्ती सुतान्दृष्ट्वा सर्वांस्तद्गतचेतसः। युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने। रममाणाः पुरे रम्ये लब्धभैक्षा महात्मनः
यानीह रमणीयानि वनान्युपवनानि च। सर्वाणि तानि दृष्टानि पुनःपुनररिन्दम
पुनर्दृष्टानि तानीह प्रीणयन्ति न नस्तथा। भैक्षं च न तथा वीर लभ्यते कुरुनन्दन
ते वयं साधु पञ्चालान्गच्छाम यदि मन्यसे। अपूर्वदर्शनं वीर रमणीयं भविष्यति
सुभिक्षाश्चैव पञ्चालाः श्रूयन्ते शत्रुकर्शन। यज्ञसेनश्च राजाऽसौ ब्रह्मण्य इति सुश्रुम
एकत्र चिरवासश्च क्षमो न च मतो मम। ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे
भवत्या यन्मतं कार्यं तदस्माकं परं हितम्। अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा। उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा
तत आमन्त्र्य तं विप्रं कुन्ती राजसुतैः सह। प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु। आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः