एवमुक्त्वा तु याजेन हुते हविषि संस्कृते। उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभिः
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम्। बिभ्रत्सखङ्गः सशरो धनुष्मान्विनदन्मुहुः
सोऽध्यारोदद्रथवरं तेन च प्रययौ तदा। ततः प्रणेदुः पञ्चालाः प्रहृष्टाः साधुसाध्विति
हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुन्धरा। भयापहो राजपुत्रः पञ्चालानां यशस्करः
राज्ञः शोकापहो जात एष द्रोणवधाय वै। इत्युवाच महद्भूतमदृश्यं खेचरं तदा
कुमारी चापि पाञ्चाली वेदीमध्यात्समुत्थिता। सुभगा दर्शनीयाङ्गी स्वसितायतलोचना
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा। ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी। नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि। देवदानवयक्षाणामीप्सितां देवरूपिणीम्
सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत। ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी। सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्रियान्क्षयम्
सुरकार्यमियं काले करिष्यति सुमध्यमा। अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम्
तच्छ्रुत्वा सर्वपञ्चालाः प्रणेदुः सिंहसङ्घवत्। न चैतान्हर्षसम्पूर्णानियं सेहे वसुन्धरा
पाञ्चालराजस्तां दृष्ट्वा हर्षादश्रूण्यवर्तयत्। परिष्वज्य च तां कृष्णां स्नुषा पाण्डोरिति ब्रुवन्। अङ्कमारोप्य पाञ्चालीं राजा हर्षमवाप सः
तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुतार्थिनी। न वै मदन्यां जननीं जानीयातामिमाविति
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया। तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः
धृष्टत्वादत्यमर्षित्वाद्द्युम्नाद्युत्संभवादपि। धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति
कृष्णेत्येवाब्रुवकन्कृष्णां कृष्णा।ञभूत्सा हि वर्णतः। तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे
वैदिकाध्ययने पारं धृष्टद्युम्नो गतः परम्
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्। उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः। तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात्
श्रुत्वा जतुगृहे वृत्तं ब्राह्मणाः संशितव्रताः। पाञ्चालराजं द्रुपदमिदं वचनमब्रुवन्
धार्तराष्ट्राः सहामात्या मन्त्रयित्वा परस्परम्। पाण्डवानां विनाशाय मतिं चक्रुः सुदुष्कराम्
दुर्योधनेन प्रहितः पुरोचन इति श्रुतः। वारणावतमासाद्य कृत्वा जतुगृहं महत्
तस्मिन्गृहे सुविस्रब्धान्पाण्डवान्पृथया सह। अर्धरात्रे महाराज दग्धवानतिदुर्मतिः
तेनाग्निना स्वयं चापि दग्धः क्षुद्रो नृशंसवत्। एतच्छ्रुत्वा सुसंहृष्टो धृतराष्ट्रः सबान्धवः
अल्पशोकः प्रहृष्टात्मा शशास विदुरं तदा। पाण्डवानां महाप्राज्ञ कुरु पिण्डोदकक्रियाम्
अहो विधिवशादेव गतास्ते यमसादनम्। इत्युक्त्वा प्रारदत्तत्र धृतराष्ट्रः सबान्धवः
श्रुत्वा भीष्मेण विदुरः कृतवानौर्ध्वदेहिकम्। पाण्डवानां विनाशाय कृतं कर्म दुरात्मना
एतत्कार्यस्य कर्ता तु न दृष्टो न श्रुतः पुरा। एतद्वृत्तं महाभाग पाण्डवान्प्रति नः श्रुतम्