प्रपेदे च्छन्दयन्कामैरुपयाजं धृतव्रतम्। पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः
अर्चयित्वा यथान्यायमुपयाजमुवाच सः। येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे
अर्जुनस्य भवेद्भार्या भवेद्या वरवर्णिनी।' उपयाज कृते तस्मिन् गवां दाताऽस्मि तेऽर्बुदं
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत्। सर्वं तत्ते प्रदाताऽहं न हि मेऽत्रास्ति संशयः
इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत। आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः। उपयाजोऽब्रवीत्काले राजन्मधुरया गिरा
ज्येष्ठो भ्राता ममागृह्माद्विचरन् गहने वने। अपरिज्ञातशौचायां भूमौ निपतितं फलम्
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन्। विमर्शं संकरादाने नायं कुर्यात्कदाचन
दृष्ट्वा फलस्य नापश्यद्दोषान्पापानुबन्धकान्। विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत्
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः। भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा
कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः। तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति। जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात्। अभिसम्पूज्य पूजार्हमथ याजमुवाच ह
अयुतानि ददान्यष्टौ गवां याजय मां विभो। द्रोणवैराभिसन्तप्तं प्रह्लादयितुमर्हसि
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः। तस्माद्द्रोणः पराजैष्ट मां वै स सखिविग्रहे
क्षत्रियो नास्ति तस्यास्यां पृथिव्यां कश्चिदग्रणीः। कौरवाचायर्मुख्यस्य भारद्वाजस्य धीमतः
द्रोणस्य शरजालानि प्राणिदेहहराणि च। षडरत्नि धनुश्चास्य दृश्यते परमं महत्
स हि ब्राह्मणवेषेण क्षात्रं वेगमशंसयम्। प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः। तस्य ह्यस्त्रबलं घोरमप्रधृष्यं नरैर्भुवि
ब्राह्मं सन्धारयंस्तेजो हुताहुतिरिवानलः। समेत्य स दहत्याजौ क्षात्रधर्मपुरःसरः
ब्रह्मक्षत्रे च विहिते ब्राह्मं तेजो विशिष्यते। सोऽहं क्षात्राद्बलाद्धीनो ब्राह्मं तेजः प्रपेदिवान्
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्। द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्
तत्कर्म कुरु मे मे याज वितराम्यर्बुदं गवाम्। तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत्
गुर्वर्थ इति चाकाममुपयाजमचोदयत्। याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः। आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै
स च पुत्रो महावीर्यो महातेजा महाबलः। इष्यते यद्विधो राजन्भविता ते तथाविधः
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः। आजह्वे तत्तथा सर्वं द्रुपदः कर्मसिद्धये
याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा। प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्
अवलिप्तं मुखं ब्रह्मन्दिव्यान्गन्धान्बिभर्मि च। सूतार्थे नोपलब्धाऽस्मि तिष्ठ याज मम प्रिये
याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम्। कथं कामं न सन्दध्यात्सा त्वं विप्रेहि तिष्ठ वा