धार्तराष्ट्राश्च ते भीताः पाञ्चालान्पाण्डवादयः। धार्तराष्ट्रैश्च सहिताः पुनर्द्रोणेन चोदिताः
यज्ञसेनेन संगम्य कर्णदुर्योधनादयः। निर्जिताः संन्यवर्तन्त तथा ते क्षत्रियर्षभाः
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि। द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा
महेन्द्र इव दुर्धर्षो महेन्द्र इव दानवम्। महेन्द्रपुत्रः पाञ्चालं जितवानर्जुनस्तदा
तद्दृष्ट्वा तु महावीर्यं फल्गुनस्य महौजसः। व्यस्मयन्त जनाः सर्वे यज्ञसेनस्य बान्धवाः
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप। अराजा किल नो राज्ञः सखा भवितुमर्हति
अतः प्रयतितं राज्ये यज्ञसेन त्वया सह। राजाऽसि दक्षिणे कूले भागीरथ्याहमुत्तरे
एवमुक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता। उवाचास्त्रविदां श्रेष्ठं द्रोणं ब्राह्मणसत्तमम्
एवं भवतु भद्रं ते भारद्वाज महामते। सख्यं तदेव भवतु शश्वद्यदभिमन्यसे
एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम्। जग्मतुर्द्रोणपाञ्चाल्यौ यथागतमरिन्दमौ
असत्कारः स तु महान्मुहूर्तमपि तस्य तु। नापैति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत्
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान्। अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः। `द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरन्सदा।' नास्ति श्रेष्ठमपत्यं म इति नित्यमचिन्तयत्
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत्। निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च। क्षात्रेण च बलेनास्य चिन्तयन्नाध्यगच्छत
प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत। अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन्
ब्राह्मणावसथं पुम्यमाससाद महीपतिः। तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः
अधीयानौ महाभागौ सोऽपश्यत्संशितव्रतौ। याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ। तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ
स तावामन्त्रयामास सर्वकामैरतन्द्रितः। बुद्ध्वा बलं तयोस्तत्र कनीयांसमुपह्वरे
प्रपेदे च्छन्दयन्कामैरुपयाजं धृतव्रतम्। पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः
अर्चयित्वा यथान्यायमुपयाजमुवाच सः। येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे
अर्जुनस्य भवेद्भार्या भवेद्या वरवर्णिनी।' उपयाज कृते तस्मिन् गवां दाताऽस्मि तेऽर्बुदं
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत्। सर्वं तत्ते प्रदाताऽहं न हि मेऽत्रास्ति संशयः
इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत। आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः। उपयाजोऽब्रवीत्काले राजन्मधुरया गिरा
ज्येष्ठो भ्राता ममागृह्माद्विचरन् गहने वने। अपरिज्ञातशौचायां भूमौ निपतितं फलम्
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन्। विमर्शं संकरादाने नायं कुर्यात्कदाचन
दृष्ट्वा फलस्य नापश्यद्दोषान्पापानुबन्धकान्। विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत्
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः। भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा