तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्। स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति
मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम्। `असंमतमिदं मेऽद्य हरिष्याम्याश्रमादिमाम्
एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम्। शङ्कमानं भृगोर्भार्यां पुनःपुनरपृच्छत
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा। साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः
मत्पूर्वभार्याऽपहृता भृगुणाऽनृतकारिणा। सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम्। जातवेदः पश्यतस्ते वद सत्यां गिरं मम
तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत्। `सत्यं वदामि यदि मे शापः स्याद्ब्रह्मवित्तमात्
असत्यं चेदहं ब्रूयां पतिष्ये नरकान्ध्रुवम्।' भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः
त्वया वृता पुलोमेयं पूर्वं दानवनन्दन। किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया
पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी। ददाति न पिता तुभ्यं वरलोभान्महायशाः
अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम्। भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव
सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे। नानृतं हि सदा लोके पूज्यते दानवोत्तम
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्। ब्रह्मन्वराहरूपेण मनोमारुतरंहसा
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह। रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्। तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्
सा तमादाय सुश्रोणी ससार भृगुनन्दनम्। च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः। रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम्
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः। अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी
आवर्तन्ती सृतिं तस्या भृगोः पत्न्यास्तपस्विनः। तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः। वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्। तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्। स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः
केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षवे। न हि त्वा वेद तद्रक्षो मद्भार्यां चारुहासिनीम्
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा। बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता। ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव
साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता। भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्। शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्। किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति
धर्मे प्रयतमानस्य सत्यं च वदतः समम्। पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम
पृष्टो हिसाक्षीयः साक्ष्यं जानानोऽप्यन्यथा वदेत्। स पूर्वानात्मनः सप्त कुले हन्यात्तथाऽपरान्
यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते। सोऽपि तेनैव पापेन लिप्यते नात्र संशयः