स म्यक् पूजयित्वा तं विप्रं विप्रर्षभस्तदा। ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रतः
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः। उपासाञ्चक्रिरे विप्रं कथयन्तं कथाः शुभाः
कथयामास देशांश्च तीर्थानि सरितस्तथा। राज्ञश्च विविधाश्चर्यान्देशांश्चैव पुराणि च
स तत्राकथयद्विप्रः कथान्ते जनमेजय। पञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम्
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः। अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः। विस्तरेणैव पप्रच्छुः कथां ते पुरुषर्षभाः
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्। वेदीमध्याच्च कृष्णायाः संभवः कथमद्भुतः
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत। `धृष्टद्युम्नो महेष्वासः कथं द्रोणस्य मृत्युदः।' कथं विप्र सखायौ तौ भिन्नौ कस्य कृतेन वा
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः। कथयामास तत्सर्वं द्रौपदीसंभवं तदा
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः। भरद्वाजो महाप्राज्ञः सततं संशितव्रतः
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम्। ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा। अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः। चिरस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे
ततः समभवद्द्रोणः कुमारस्तस्य धीमतः। अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः। तस्यापि द्रुपदो नाम तदा समभवत्सुतः
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः। चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत्। द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत्। आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम
शरीरमात्रमेवाद्य मया समवशेषितम्। अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च। प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान्
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः। प्रतिगृह्य तदा द्रोणः कृतकृत्योऽभवत्तदा
संप्रहृष्टमना द्रोणो रामात्परमसम्मतम्। ब्रह्मास्त्रं समनुज्ञाप्य नरेष्वभ्यधिकोऽभवत्
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्। अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा। नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान्। जगाम कुरुमुख्यानां नगरं नागसाह्वयम्
तस्मै पौत्रान्समादाय वसूनि विविधानि च। प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते
द्रोणः शिष्यांस्ततः पार्थानिदं वचनमब्रवीत्। समानीय तु ताञ्शिष्यान्द्रुपदस्यासुखाय वै
आचार्यवेतनं किंचिद्धृदि यद्वर्तते मम। कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः। सोऽर्जुनप्रमुखैरुक्तस्तथाऽस्त्विति गुरुस्तदा
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्चयाः। ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः। तस्मादाकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम्