वेत्रकीयगृहे सर्वे परिवार्य वृकोदरम्। विस्मयादभ्यगच्छन्त भीमं भीमपराक्रमम्
न वै न संभवेत्सर्वं ब्राह्मणेषु महात्मसु। इति सत्कृत्य तं पौराः परिवव्रुः समन्ततः
अयं त्राता हि खेदानां पितेव परमार्थतः। अस्य शुश्रूषवः पादौ परिचर्य उपास्महे
पशुमद्दधिमनच्चास्य वारं भक्तमुपाहरन्। तस्मिन्हते ते पुरुषा भीताः समनुबोधनाः
ततः संप्राद्रवन्पार्थाः सह मात्रा परन्तपाः। आगच्छन्नेकचक्रां ते गाण्डवाः संशितव्रताः
वैदिकाध्ययने युक्ता जटिला ब्रह्मचारिणः। अवसंस्ते च तत्रापि ब्राह्मणस्य निवेशने। मात्रर सहैकचक्रायां दीर्घकालं सहोषिताः
ब्राह्मण उवाच
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम्। अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम्। अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः। प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्याजगाम ह
स म्यक् पूजयित्वा तं विप्रं विप्रर्षभस्तदा। ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रतः
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः। उपासाञ्चक्रिरे विप्रं कथयन्तं कथाः शुभाः
कथयामास देशांश्च तीर्थानि सरितस्तथा। राज्ञश्च विविधाश्चर्यान्देशांश्चैव पुराणि च
स तत्राकथयद्विप्रः कथान्ते जनमेजय। पञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम्
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः। अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः। विस्तरेणैव पप्रच्छुः कथां ते पुरुषर्षभाः
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्। वेदीमध्याच्च कृष्णायाः संभवः कथमद्भुतः
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत। `धृष्टद्युम्नो महेष्वासः कथं द्रोणस्य मृत्युदः।' कथं विप्र सखायौ तौ भिन्नौ कस्य कृतेन वा
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः। कथयामास तत्सर्वं द्रौपदीसंभवं तदा
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः। भरद्वाजो महाप्राज्ञः सततं संशितव्रतः
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम्। ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा। अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः। चिरस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे
ततः समभवद्द्रोणः कुमारस्तस्य धीमतः। अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः। तस्यापि द्रुपदो नाम तदा समभवत्सुतः
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः। चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत्। द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत्। आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम
शरीरमात्रमेवाद्य मया समवशेषितम्। अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च। प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान्