भूमौ निपत्य विलुठन्दण्डाहत इवोरगः। विस्फुरन्तं महाकायं परितो विचकर्ष ह
विकृष्यमाणो वेगेन पाण्डवेन बलीयसा। समयुज्यत तीव्रेण श्रमेण पुरुषादकः
हीयमानबलं रक्षः समीक्ष्य पुरुषर्षभः। निष्पिष्य भूमौ जानुभ्यां समाजघ्ने वृकोदरः
ततो।ञस्य जानुना पृष्ठमवपीड्य बलादिव। बाहुना परिजग्राह दक्षिणेन शिरोधराम्
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः। जानुन्यारोप्य तत्पृष्ठं महाशब्दं बभञ्ज ह
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशांपते। भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः
ततः स भग्नपार्श्वाङ्गो नदित्वा भैरवं रवम्। शैलराजप्रतीकाशो गतासुरभवद्बकः
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः। निष्पपात गृहाद्राजन्सहैव परिचारिभिः
बकानुजस्तदा राजन्भीमं शरणमेयिवान्। ततस्तु निहतं दृष्ट्वा राक्षसेन्द्रं महाबलम्। राक्षसाः परमत्रस्ता भीमं शऱणमाययुः
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः। सांत्वयामास बलवान्समये च न्यवेशयत्
न हिंस्या मानुषा भूयो युष्माभिरिति कर्हिचित्। हिंसतां हि वधः शीघ्रमेवमेव भवेदिति
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत। एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम्
सगणस्तु बकभ्राता प्राणमत्पाण्डवं तदा।' ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत। नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः
ततो भीमस्तमादाय गतासुं पुरुषादकम्। `निष्कर्णनेत्रं निर्जिह्वं निःसंज्ञं कण्ठपीडनात्। कुर्वन्बहुविधां चेष्टां पुरद्वारमकर्षत
द्वारदेशे विनिक्षिप्य पुरमागात्स मारुतिः। स एव राक्षसो नूनं पुनरायाति नः पुरीम्
सबालवृद्धाः पुरुषा इति भीताः प्रदुद्रुवुः। ततो भीमो बकं हत्वा गत्वा ब्राह्मणवेश्म तत्
बलीवर्दौ च शकटं ब्राह्मणाय न्यवेदयत्। तूष्णीमन्तर्गृहं गच्छेत्यभिधाय द्विजोत्तमम्
मातृभ्रातृसमक्षं च गत्वा शयनमेव च। आचचक्षेऽथ तत्सर्वं रात्रौ युद्धमभूद्यथा
ततो नरा विनिष्क्रान्ता नगरात्कल्यमेव तु। ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम्
तमद्रिकूटसदृशं विनिकीर्णं भयानकम्। दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः
एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः पुरे। ततः सहस्रशो राजन्नरा नगरवासिनः
तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः। ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वाऽतिमानुषम्। दैवतान्यर्चयाञ्चक्रुः प्रार्थितानि पुरा भयात्
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने। ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव ते
एवं पृष्टः स बहुशो रक्षमाणश्च पाण्डवान्। उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः। ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महामनाः
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च। अब्रवीद्ब्राह्मणश्रेष्ठो विश्वास्य प्रहसन्निव
प्रापयिष्याम्यहं तस्मा अन्नमेतद्दुरात्मने। मन्निमित्तं भयं चापि न कार्यमिति चाब्रवीत्
स तदन्नमुपादाय गतो बकवनं प्रति। तेन नूनं भवेदेतत्कर्म लोकहितं कृतम्
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः। वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति। तमद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन्