महाकायो महावेगो दारयन्निव मेदिनीम्। पिशङ्गरूपः पिङ्गाक्षो भीमसेनमभिद्रवत्
त्रिशिखां भ्रुकुटीं कृत्वा संदश्य दशनच्छदम्। भृशं स भूयः संक्रुद्धो वृक्षमादाय राक्षसः
ताडयिष्यंस्तदा भीमं तरसाऽभ्यद्रवद्बली। क्रुद्धेनाभिहतं वृक्षं प्रतिजग्राह लीलया
सव्येन पाणिना भीमः प्रहसन्निव भारत। ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली
प्राहिणोद्भीमसेनाय बकोऽपि बलवान्रणे। सर्वानपोहयद्वृक्षान्स्वस्य हस्तस्य शाखया
तद्वृक्षयुद्धमभवद्वृक्षषण्डविनाशनम्।। महत्सुघोरं राजेन्द्र बकपाण्डवयोस्तदा
नाम विश्राव्य स बकः समभिद्रुत्य पाण्डवम्। समयुध्यत तीव्रेण वेगेन पुरुषादकः
तयोर्वेगेन महता पृथिवी समकम्पत। पादपांश्च महामात्रांश्चूर्णयामासतुः क्षणात्
द्रुतमागत्य पाणिभ्यां गृहीत्वा चैनमाक्षिपत्। आक्षिप्तो भीमसेनश्च पुनरेवोत्थितो हसन्
आलिङ्ग्यापि बकं भीमो न्यहनद्वसुधातले। भीमो विसर्जयित्वैनं समाश्वसिहि राक्षस
इत्युक्त्वा पुनरास्फोट्य उत्तिष्ठेति च सोऽब्रवीत्। समुत्पत्य ततः क्रुद्धो रूपं कृत्वा महत्तरम्
विरूपः सहसा तस्थौ2 तर्जयित्वा वृकोदरम्। अहसद्भीमसेनोऽपि राक्षसं भीमदर्शनम्
असौ गृहीत्वा पाणिभ्यां पृष्ठतश्च व्यवस्थितः। जानुभ्यां पीडयित्वाथ पातयामास भूतले
पुनः क्रुद्धो विसृज्यैनं राक्षसं क्रोधजीवितम्। स्वां कटीमीषदुन्नम्य बाहू तस्य परामृशत्
तस्य बाहू समादाय त्वरमाणो वृकोदरः। उत्क्षिप्य चावधूयैनं पातयन्बलवान्भुवि
तं तु वामेन पादेन क्रुद्धो भीमपराक्रमः। उरस्येनं समाजघ्ने भीमस्तु पतितं भुवि
व्यात्ताननेन घोरेण लम्बजिह्वेन रक्षसा। तेनाभिद्रुत्य भीमेन भीमो मूर्ध्नि समाहतः
एवं निहन्यमानः स राक्षसेन बलीयसा। रोषेण महताऽऽविष्टो भीमो भीमपराक्रमः
गृहीत्वा मध्यमुत्क्षिप्य बली जग्राह राक्षसम्। तावन्योन्यं पीडयन्तौ पुरुषादवृकोदरौ
मत्ताविव महानागावन्योन्यं विचकर्षतुः
बाहुविक्षेपशब्दैश्च भीमराक्षसयोस्तदा। वेत्रकीयपुरी सर्वा वित्रस्ता समपद्यत
तयोर्वेगेन महता तत्र भूमिरकम्पत। पादपान्वीरुधश्चैव चूर्णयामासतू रयात्
समागतौ च तौ वीरावन्योन्यवधकाङ्क्षिणौ। गिरिभिर्गिरिशृह्गैश्च पाषाणैः पर्वतच्युतैः
अन्योन्यं ताडयन्तौ तौ चूर्णयामासतुस्तदा। आयामविस्तराभ्यां च परितो योजनद्वयम्
निर्महीरुहपाषाणतृणकुञ्जलतावलिम्। चक्रतुर्युद्धदुर्मत्तौ कूर्मपृष्ठोपमां महीम्
मुहूर्तमेवं संयुध्य समं रक्षःकुरूद्वहौ। ततो रक्षोविनाशाय मतिं कृत्वा कुरूत्तमः
दन्तान्कटकटीकृत्य दष्ट्वा च दशनच्छदम्। नेत्रे संवृत्य विकटं तिर्यक्प्रैक्षत राक्षसम्
अथ तं लोलयित्वा तु भीमसेनो महाबलः। अगृह्णात्परिरभ्यैनं बाहुभ्यां परिरभ्य च
जानुभ्यां पार्श्वयोः कुक्षौ पृष्ठे वक्षसि जघ्निवान्। भग्नोरुबाहुहृच्चैव विस्रंसद्देहबन्धनः
प्रस्वेददीर्घनिश्वासो निर्यञ्जीवाक्षितारकः। अजाण्डास्फोटनं कुर्वन्नाक्रोशंश्च श्वसञ्छनैः