शकटान्नं ततो भुक्त्वा रक्षसः पाणिना सह। गृह्णन्नेव तदा वृक्षं निःशेषं पर्वतोपमम्
भीमसेनो हसन्नेव भुक्त्वा त्यक्त्वा च राक्षसम्। पीत्वा दधिघटान्पूर्णान्घृतकुम्भाञ्शतं शतम्
वार्युपस्पृश्य संहृष्टस्तस्थौ गिरिरिवापरः। भ्रामयन्तं महावृक्षमायान्तं भीमदर्शनम्
दृष्ट्वोत्थायाहवे वीरः सिंहनादं व्यनादयत्। भुजवेगं तथाऽऽस्फोटं क्ष्वेलितं च महास्वनम्
कृत्वाऽऽह्वयत संक्रुद्धो भीमसेनोऽथ राक्षसम्। उवाचाशनिशब्देन ध्वनिना भीषयन्निव
बहुकालं सुपुष्टं ते शरीरं राक्षसाधम। द्विपच्चतुष्पन्मांसैश्च बहुभिश्चौदनैरपि
मद्बाहुबलमाश्रित्य न त्वं भूयस्त्वशिष्यसि। अद्य मद्बाहुनिष्पिष्टो गमिष्यसि यमालयम्
अद्यप्रभृति स्वप्स्यन्ति वेत्रकीयनिवासिनः। निरुद्विग्नाः पुरस्यास्य कण्टके सूद्धृते मया
अद्य युद्धे शरीरं ते कङ्कगोमायुवायसाः। मया हतस्य खादन्तु विकर्षन्तु च भूतले
एवमुक्त्वा सुसंक्रुद्धः पार्थो बकजिघांसया। उपाधावद्बकश्चापि पार्थं पार्थिवसत्तम
महाकायो महावेगो दारयन्निव मेदिनीम्। पिशङ्गरूपः पिङ्गाक्षो भीमसेनमभिद्रवत्
त्रिशिखां भ्रुकुटीं कृत्वा संदश्य दशनच्छदम्। भृशं स भूयः संक्रुद्धो वृक्षमादाय राक्षसः
ताडयिष्यंस्तदा भीमं तरसाऽभ्यद्रवद्बली। क्रुद्धेनाभिहतं वृक्षं प्रतिजग्राह लीलया
सव्येन पाणिना भीमः प्रहसन्निव भारत। ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली
प्राहिणोद्भीमसेनाय बकोऽपि बलवान्रणे। सर्वानपोहयद्वृक्षान्स्वस्य हस्तस्य शाखया
तद्वृक्षयुद्धमभवद्वृक्षषण्डविनाशनम्।। महत्सुघोरं राजेन्द्र बकपाण्डवयोस्तदा
नाम विश्राव्य स बकः समभिद्रुत्य पाण्डवम्। समयुध्यत तीव्रेण वेगेन पुरुषादकः
तयोर्वेगेन महता पृथिवी समकम्पत। पादपांश्च महामात्रांश्चूर्णयामासतुः क्षणात्
द्रुतमागत्य पाणिभ्यां गृहीत्वा चैनमाक्षिपत्। आक्षिप्तो भीमसेनश्च पुनरेवोत्थितो हसन्
आलिङ्ग्यापि बकं भीमो न्यहनद्वसुधातले। भीमो विसर्जयित्वैनं समाश्वसिहि राक्षस
इत्युक्त्वा पुनरास्फोट्य उत्तिष्ठेति च सोऽब्रवीत्। समुत्पत्य ततः क्रुद्धो रूपं कृत्वा महत्तरम्
विरूपः सहसा तस्थौ2 तर्जयित्वा वृकोदरम्। अहसद्भीमसेनोऽपि राक्षसं भीमदर्शनम्
असौ गृहीत्वा पाणिभ्यां पृष्ठतश्च व्यवस्थितः। जानुभ्यां पीडयित्वाथ पातयामास भूतले
पुनः क्रुद्धो विसृज्यैनं राक्षसं क्रोधजीवितम्। स्वां कटीमीषदुन्नम्य बाहू तस्य परामृशत्
तस्य बाहू समादाय त्वरमाणो वृकोदरः। उत्क्षिप्य चावधूयैनं पातयन्बलवान्भुवि
तं तु वामेन पादेन क्रुद्धो भीमपराक्रमः। उरस्येनं समाजघ्ने भीमस्तु पतितं भुवि
व्यात्ताननेन घोरेण लम्बजिह्वेन रक्षसा। तेनाभिद्रुत्य भीमेन भीमो मूर्ध्नि समाहतः
एवं निहन्यमानः स राक्षसेन बलीयसा। रोषेण महताऽऽविष्टो भीमो भीमपराक्रमः
गृहीत्वा मध्यमुत्क्षिप्य बली जग्राह राक्षसम्। तावन्योन्यं पीडयन्तौ पुरुषादवृकोदरौ
मत्ताविव महानागावन्योन्यं विचकर्षतुः