गृध्रकङ्कबलच्छन्नं गोमायुगणसेवितम्। उग्रगन्धमचक्षुष्यं श्मशानमिव दारुणम्
तं प्रविश्य महावृक्षं चिन्तयामास वीर्यवान्। यावन्न पश्यते रक्षो बकाभिख्यं बलोत्तरम्
आचितं विविधैर्भोज्यैरन्नैरुच्चावचैरिदम्। शकटं सूपसंपूर्णं यावद्द्रक्ष्यति राक्षसः
तावदेवेह भोक्ष्येऽहं दुर्लभं हि पुनर्भवेत्। विप्रकीर्येत सर्वं हि प्रयुद्धे मयि रक्षसा
अभोज्यं हि शवस्पर्शे निगृहीते बके भवेत्। स त्वेवं भीमकर्मा तु भीमसेनोऽभिलक्ष्य च
उपविश्य विविक्तेऽन्नं भुङ्क्ते स्म परमं परः। तं ततः सर्वतोऽपश्यन्द्रुमानारुह्य नागराः
नारक्षो बलिमश्नीयादेवं बहु च मानवाः। भुङ्क्ते ब्राह्मणरूपेण बकोऽयमिति चाब्रुवन्
स तं हसति तेजस्वी तदन्नमुपभुज्य च।' आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली। आजुहाव ततो नाम्ना तदन्नमुपपादयन्
ततः स राक्षसः क्रुद्धो भीमस्य वचनात्तदा। आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः
महाकायो महावेगो दारयन्निव मेदिनीम्। लोहिताक्षः करालश्च लोहितश्मश्रुमूर्धजः
आकर्णाद्भिन्नवक्त्रश्च शङ्कुकर्णो विभीषणः। त्रिशिखां भ्रुकुटिं कृत्वा संदश्य दशनच्छदम्
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः। विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत्
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम्। पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम्
भीमसेनस्ततः श्रुत्वा प्रहसन्निव भारत। राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः
रवं स भैरवं कृत्वा समुद्यम्य करावुभौ। अभ्यद्रवद्भीमसेनं जिङांसुः पुरुषादकः
तथापि परिभूयैनं प्रेक्षमाणो वृकोदरः। राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा
अमर्षेण तु संपूर्णः कुन्तीपुत्रं वृकोदरम्। जघान पृष्ठे पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः
तथा बलवता भीमः पाणिभ्यां भृशमाहतः। नैवावलोकयामास राक्षसं भुङ्क्त एव सः
ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः। ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान्। सव्येन पाणिना भीमो दक्षिणेनाप्यभुङ्क्त ह
शकटान्नं ततो भुक्त्वा रक्षसः पाणिना सह। गृह्णन्नेव तदा वृक्षं निःशेषं पर्वतोपमम्
भीमसेनो हसन्नेव भुक्त्वा त्यक्त्वा च राक्षसम्। पीत्वा दधिघटान्पूर्णान्घृतकुम्भाञ्शतं शतम्
वार्युपस्पृश्य संहृष्टस्तस्थौ गिरिरिवापरः। भ्रामयन्तं महावृक्षमायान्तं भीमदर्शनम्
दृष्ट्वोत्थायाहवे वीरः सिंहनादं व्यनादयत्। भुजवेगं तथाऽऽस्फोटं क्ष्वेलितं च महास्वनम्
कृत्वाऽऽह्वयत संक्रुद्धो भीमसेनोऽथ राक्षसम्। उवाचाशनिशब्देन ध्वनिना भीषयन्निव
बहुकालं सुपुष्टं ते शरीरं राक्षसाधम। द्विपच्चतुष्पन्मांसैश्च बहुभिश्चौदनैरपि
मद्बाहुबलमाश्रित्य न त्वं भूयस्त्वशिष्यसि। अद्य मद्बाहुनिष्पिष्टो गमिष्यसि यमालयम्
अद्यप्रभृति स्वप्स्यन्ति वेत्रकीयनिवासिनः। निरुद्विग्नाः पुरस्यास्य कण्टके सूद्धृते मया
अद्य युद्धे शरीरं ते कङ्कगोमायुवायसाः। मया हतस्य खादन्तु विकर्षन्तु च भूतले
एवमुक्त्वा सुसंक्रुद्धः पार्थो बकजिघांसया। उपाधावद्बकश्चापि पार्थं पार्थिवसत्तम