उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम्। आर्तस्य ब्राह्मणस्यैतदनुक्रोशादिदं कृतम्
ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम्। सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि
यथा त्विदं न विन्देयुर्नरा नगरवासिनः। तथाऽयं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः
युधिष्ठिरेण संमन्त्र्य ब्राह्मणार्थमरिन्दम। कुन्ती प्रविश्य तान्सर्वान्मन्त्रयामास भारत
अथ रात्र्यां व्यतीतायां भीमसेनो महाबलः। ब्राह्मणं समुपागम्य वचश्चेदमुवाच ह
आपदस्त्वां विमोक्ष्येऽहं सपुत्रं ब्राह्मण प्रियम्। मा भैषी राक्षसात्तस्मान्मां ददातु बलिं भवान्
इद मामशितं कर्तुं प्रयतस्व सकृद्गृहे। आथात्मानं प्रादास्यामि तस्मै घोराय रक्षसे
त्वरध्वं किं विलम्बध्वे मा चिरं कुरुतानघाः। व्यवस्येयं मनः प्राणैर्युष्मान्रक्षितुमद्य वै
एवमुक्तः स भीमेन ब्राह्मणो भरतर्षभ। सुहृदां तत्समाख्याय ददावन्नं सुसंस्कृतम्
पिशितोदनमाजह्रुरथास्मै पुरवासिनः। सघृतं सोपदंशं च सूपैर्नानाविधैः सह
तदाऽशित्वा भीमसेनो मांसानि विविधानि च। मोदकानि च मुख्यानि चित्रोदनचयान्बहून्
ततोऽपिबद्दधिघटान्सुबहून्द्रोणसंमितान्। तस्य भुक्तवतः पौरा यथावत्समुपार्जितान्
उपजह्रुर्भृतं भागं समृद्धमनसस्तदा। ततो रात्र्यां व्यतीतायां सव्यञ्जनदधिप्लुतम्
समारुह्यान्नसंपूर्णं शकटं स वृकोदरः। प्रययौ तूर्यनिर्घोषैः पौरैश्च परिवारितः
आत्मानमेषोऽन्नभूतो राक्षसाय प्रदास्यति। तरुणोऽप्रतिरूपश्च दृढ औदरिको युवा
वाग्भिरेवंप्रकाराभिः स्तूयमानो वृकोदरः। चुचोद स बलीवर्दौ युक्तौ सर्वाङ्गकालकौ
वादित्राणां प्रवादेन ततस्तं पुरुषादकम्। अभ्यगच्छत्सुसंहृष्टः सर्वत्र मनुजैर्वृतः
संप्राप्य स च तं देशमेकाकी समुपाययौ। पुरुषादभयाद्भीतस्तत्रैवासीज्जनव्रजः
स गत्वा दूरमध्वानं दक्षिणामभितो दिशम्। यतोपदिष्टमुद्देशे ददर्श विपुलं द्रुमम्
केशमज्जास्थिमेदोभिर्बाहूरुचरणैरपि। आर्द्रैः शुष्कैश्च संकीर्णमभितोऽथ वनस्पतिम्
गृध्रकङ्कबलच्छन्नं गोमायुगणसेवितम्। उग्रगन्धमचक्षुष्यं श्मशानमिव दारुणम्
तं प्रविश्य महावृक्षं चिन्तयामास वीर्यवान्। यावन्न पश्यते रक्षो बकाभिख्यं बलोत्तरम्
आचितं विविधैर्भोज्यैरन्नैरुच्चावचैरिदम्। शकटं सूपसंपूर्णं यावद्द्रक्ष्यति राक्षसः
तावदेवेह भोक्ष्येऽहं दुर्लभं हि पुनर्भवेत्। विप्रकीर्येत सर्वं हि प्रयुद्धे मयि रक्षसा
अभोज्यं हि शवस्पर्शे निगृहीते बके भवेत्। स त्वेवं भीमकर्मा तु भीमसेनोऽभिलक्ष्य च
उपविश्य विविक्तेऽन्नं भुङ्क्ते स्म परमं परः। तं ततः सर्वतोऽपश्यन्द्रुमानारुह्य नागराः
नारक्षो बलिमश्नीयादेवं बहु च मानवाः। भुङ्क्ते ब्राह्मणरूपेण बकोऽयमिति चाब्रुवन्
स तं हसति तेजस्वी तदन्नमुपभुज्य च।' आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली। आजुहाव ततो नाम्ना तदन्नमुपपादयन्
ततः स राक्षसः क्रुद्धो भीमस्य वचनात्तदा। आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः
महाकायो महावेगो दारयन्निव मेदिनीम्। लोहिताक्षः करालश्च लोहितश्मश्रुमूर्धजः