वृकोदरेण सदृशो बलेनान्यो न विद्यते। यो व्यतीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम्
जातमात्रः पुरा चैव ममाङ्कात्पतितो गिरौ। शरीरगौरवादस्य शिला गात्रैर्विचूर्णिता
तदहं प्रज्ञया ज्ञात्वा बलं भीमस्य पाण्डव। प्रतिकार्ये च विप्रस्य ततः कृतवती मतिम्
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम्। बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः। प्रतीकारश्च वासस्य धर्मश्च चरितो महान्
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित्। क्षत्रियः स शुभाँल्लोकानाप्नुयादिति मे मतिः
क्षत्रियस्यैव कुर्वाणः क्षत्रियो वधमोक्षणम्। विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च
वैश्यस्यार्थे च साहाय्यं कुर्वाणः क्षत्रियो भुवि। स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम्
शूद्रं तु मोचयेद्राजा शरणार्थिनमागतम्। प्राप्नोतीह कुले जन्म सद्द्रव्ये राजपूजिते
एवं मां भगवान्व्यासः पुरा पौरवनन्दन। प्रोवाचासुकरप्रज्ञस्तस्मादेवं चिकीर्षितम्
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम्। आर्तस्य ब्राह्मणस्यैतदनुक्रोशादिदं कृतम्
ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम्। सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि
यथा त्विदं न विन्देयुर्नरा नगरवासिनः। तथाऽयं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः
युधिष्ठिरेण संमन्त्र्य ब्राह्मणार्थमरिन्दम। कुन्ती प्रविश्य तान्सर्वान्मन्त्रयामास भारत
अथ रात्र्यां व्यतीतायां भीमसेनो महाबलः। ब्राह्मणं समुपागम्य वचश्चेदमुवाच ह
आपदस्त्वां विमोक्ष्येऽहं सपुत्रं ब्राह्मण प्रियम्। मा भैषी राक्षसात्तस्मान्मां ददातु बलिं भवान्
इद मामशितं कर्तुं प्रयतस्व सकृद्गृहे। आथात्मानं प्रादास्यामि तस्मै घोराय रक्षसे
त्वरध्वं किं विलम्बध्वे मा चिरं कुरुतानघाः। व्यवस्येयं मनः प्राणैर्युष्मान्रक्षितुमद्य वै
एवमुक्तः स भीमेन ब्राह्मणो भरतर्षभ। सुहृदां तत्समाख्याय ददावन्नं सुसंस्कृतम्
पिशितोदनमाजह्रुरथास्मै पुरवासिनः। सघृतं सोपदंशं च सूपैर्नानाविधैः सह
तदाऽशित्वा भीमसेनो मांसानि विविधानि च। मोदकानि च मुख्यानि चित्रोदनचयान्बहून्
ततोऽपिबद्दधिघटान्सुबहून्द्रोणसंमितान्। तस्य भुक्तवतः पौरा यथावत्समुपार्जितान्
उपजह्रुर्भृतं भागं समृद्धमनसस्तदा। ततो रात्र्यां व्यतीतायां सव्यञ्जनदधिप्लुतम्
समारुह्यान्नसंपूर्णं शकटं स वृकोदरः। प्रययौ तूर्यनिर्घोषैः पौरैश्च परिवारितः
आत्मानमेषोऽन्नभूतो राक्षसाय प्रदास्यति। तरुणोऽप्रतिरूपश्च दृढ औदरिको युवा
वाग्भिरेवंप्रकाराभिः स्तूयमानो वृकोदरः। चुचोद स बलीवर्दौ युक्तौ सर्वाङ्गकालकौ
वादित्राणां प्रवादेन ततस्तं पुरुषादकम्। अभ्यगच्छत्सुसंहृष्टः सर्वत्र मनुजैर्वृतः
संप्राप्य स च तं देशमेकाकी समुपाययौ। पुरुषादभयाद्भीतस्तत्रैवासीज्जनव्रजः
स गत्वा दूरमध्वानं दक्षिणामभितो दिशम्। यतोपदिष्टमुद्देशे ददर्श विपुलं द्रुमम्
केशमज्जास्थिमेदोभिर्बाहूरुचरणैरपि। आर्द्रैः शुष्कैश्च संकीर्णमभितोऽथ वनस्पतिम्