कुर्यान्न निन्दितं कर्म न नृशंसं कथंचन। इति पूर्वे महात्मान आपद्धर्मविदो विदुः
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम्। ब्राह्मणस्य वधं नाहमनुमंस्ये कदाचन
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा। न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत्
न चासौ राक्षसः शक्तो मम पुत्रविनाशने। वीर्यमन्मन्त्रसिद्धश्च तेजस्वी च सुतो मम
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम्। मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः। बलवन्तो महाकाया निहताश्चाप्यनेकशः
न त्विदं केषुचिद्ब्रह्मान्व्याहर्तव्यं कथंचन। विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात्
गुरुणा चाननुज्ञातो ग्राहयेद्यः सुतो मम। न स कुर्यात्तथा कार्यं विद्ययेति सतां मतम्
एवमुक्तस्तु पृथया स विप्रो भार्यया सह। हृष्टः संपूजयामास तद्वाक्यममृतोपमम्
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम्। तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ
करिष्य इति भीमेन प्रतिज्ञातेऽथ भारत। आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः
भीमसेनं ततो दृष्ट्वा आपूर्णवदनं तथा। बुबोध धर्मराजस्तु हृषितं भीममच्युतम्
तोषस्य कारणं यत्तु मनसाऽचिन्तयद्गुरुः। स समीक्ष्य तदा राजन्योद्धुकामं युधिष्ठिरः
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः। रहः समुपविश्यैकस्ततः पप्रच्छ मातरम्
किं चिकीर्षत्ययं कर्म भीमो भमपराक्रमः। भवत्यनुमते कच्चित्स्वयं वा कर्तुमिच्छति
ममैव वचनादेष करिष्यति परन्तपः। ब्राह्मणार्थे महत्कृत्यं मोक्षाय नगरस्य च
बकाय कल्पितं पुत्र महान्तं बलिमुत्तमम्। भीमो भुनक्तु सुस्पष्टमप्येकाहं तपःसुतः
किमिदं साहसं तीक्ष्णं भवत्या दुष्करं कृतम्। परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि। लोकवेदविरुद्धं हि पुत्रत्यागात्कृतं त्वया
यस्य बाहू समाश्रित्य सुखं सर्वे शयामहे। राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः। न शेते रजनीः सर्वा दुःखाच्छकुनिना सह
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम्। अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम्। इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान्
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया। कच्चिन्नु दुःखैर्बुद्धिस्ते विलुप्ता गतचेतसः
युधिष्ठिर न संतापस्त्वया कार्यो वृकोदरे। न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया
न च शोकेन बुद्धिः सा विलुप्ता गतचेकसः।' इह विप्रस्य भवने वयं पुत्र सुखोषिताः। अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः
तस्य प्रतिक्रिया पार्थ मयेयं प्रसमीक्षिता। एतावानेव पुरुषः कृतं यस्मिन्न नश्यति
यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुमं ततः। `ब्राह्मणार्थे महान्धर्मो जानामीत्थं वृकोदरे
दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत्। हिडिम्बस्य वधाच्चैवं विश्वासो मे वृकोदरे
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत्। येन यूयं गजप्रख्या निर्व्यूढा वारणावतात्