अथैनं ब्राह्मणाः सर्वे समये समयोजयन्। मा स्म कामाद्वधी रक्षो दास्यामस्ते सदा वयं
पर्यायेण यथाकाममिह मांसोदनं प्रभो। अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम्
सर्पिषा च समायुक्तं व्यञ्जनैश्च समन्वितम्। सूपांस्त्रीन्सतिलान्पिण्डाँल्लाजापूपसुरासवान्
शृताशृतान्पानकुम्भान्स्थूलमांसं शृताशृतम्। वनमाहिषवाराहभाल्लूकं च शृताशृतम्
सर्पिःकुम्भांश्च विविधान्दधिकुम्भांस्तथा बहून्। सद्यःसिद्धसमायुक्तं तिलचूर्णैः समाकुलम्
कुलाच्च पुरुषं चैकं बलीवर्दौ च कालकौ। प्राप्स्यसि त्वमसंक्रुद्धो रक्षोभागं प्रकल्पितम्
तिष्ठेह समयेऽस्माकमित्ययाचन्त तं द्विजाः। बाढमित्येव तद्रक्षस्तद्वचः प्रत्यगृह्णत
परचक्राटवीकेभ्यो रक्षणं स करोति च। तस्मिन्भागे सुनिर्दिष्टे स्थितः स समये बली
एकैकं चैव पुरुषं संप्रयच्छन्ति वेतनम्। स वारो बहुभिर्वर्षैर्भवत्यसुकरो नरैः
तद्विमोक्षाय ये केचिद्यतन्ते पुरुषाः क्वचित्। सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत
वेत्रकीयगृहे राजा नायं नयमिहास्थितः। उपायं तं न कुरुते यत्नादपि स मन्दधीः। अनामयं जनस्यास्य येन स्यादद्य शाश्वतम्
एतदर्हा वचं नूनं वसामो दुर्बलस्य ये। विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः
ब्राह्मणाः कस्य वक्तव्याः कस्य वाच्छन्दचारिणः। गुणैरेते हि वत्स्यन्ति कामगाः पक्षिणो यथा
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्। `राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम्। वयस्य संचयेनास्य ज्ञातीन्पुत्रांश्च तारयेत्
विपीरतं मया चेदं त्रयं सर्वमुपार्जितम्। तदिमामापदं प्राप्य भृशं तप्यामहे वयम्
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः। भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया
न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित्। सुहृज्जनं प्रदातुं च न शक्ष्यामि कदाचन
गतिं चान्यां न पश्यामि तस्मान्मोक्षाय रक्षसः। सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम्
सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम्। ततो नः सहितान्क्षुद्रः सर्वानेवोपभोक्ष्यति
दुःखमूलमिदं भद्रे मयोक्तं प्रश्नतोऽनघे
न विषादस्त्वया कार्यो भयादस्मात्कथंचन। उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः
नैव स्वयं सपुत्रस्य गमनं तत्र रोचये।' एकस्तव सुतो बालः कन्या चैका तपस्विनी। न चैतयोस्तथा पत्न्या गमनं तव रोचये
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति। त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः
नाहमेतत्करिष्यामि जीवितार्थी कथंचन। ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणान्वियोजयन्
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते। यद्ब्राह्ममार्थं विसृजेदात्मानमपि चात्मजम्
आत्मनस्तु वधः श्रेयो बोद्धव्यमिति रोचते। ब्रहम्वध्याऽऽत्मवध्या वा श्रेयानात्मवधो मम
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते। अबुद्धिपूर्वं कृत्वापि प्रत्यवायो हि विद्यते
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे। परैः कृते वधे पापं न किंचिन्मयि विद्यते
अभिसंधौ कृते तस्मिन्ब्राह्मणस्य वधे मया। निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च
आगतस्य गृहं त्यागस्तथैव शरणार्थिनः। याचमानस्य च वधो नृशंसो गर्हितो बुधैः