तातेपि हि गते स्वर्गं विनष्टे च ममानुजे। पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत्
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्। दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिताम्
त्वयि त्वरोगे निर्मुक्तो माता भ्राता च मे शिशुः। सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्
आत्मा पुत्रः सखी भार्या कृच्छ्रं तु दुहिता किल। स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजया
अनाथा कृपणा बाला यत्र क्वचन गामिनी। भविष्यामि त्वया तात विहीना कृपणा सदा
अथवाहं करिष्यामि कुलस्यास्य विमोचनम्। फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम। पीडिताऽहं भविष्यामि तदवेक्षस्व मामपि
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम। आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज
अवश्यकरणीये च मा त्वां कालोत्यगादयम्। किं त्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि
याचमानाः परादन्नं परिधावेमहि श्ववत्। त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे। अमृतेव सती लोके भविष्यामि सुखान्विता
इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम्। त्वया दत्तेन तोयेन भविष्यति हिताय वै
इत्येतदुभयं तात निशाम्य तव यद्धितम्। तद्व्यवस्य तथाम्बाया हितं स्वस्य सुतस्य च
मातापित्रोश्च पुत्रास्तु भवितारो गुणान्विताः। न तु पुत्रस्य पितरो पुनर्जातु भविष्यतः
एवं बहुविधं तस्या निशम्य परिदेवितम्। पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तदा। उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत्
मा पिता रुद मा मातर्मा स्वसस्त्विति चाब्रवीत्। प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत्। अनेनाहं हनिष्यामि राक्षसं पुरुषादकम्
तथापि तेषां दुःखेन परीतानां निशम्य तत्। बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान्। गतासूनमृतेनेव जीवयन्तीदमब्रवीत्
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः। विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुम्
उपपन्नं सतामेतद्यद्ब्रवीपि तपोधने। न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम्
तथापि तत्त्वमाख्यास्ये दुःखस्यैतस्य संभवम्। शक्यं वा यदि वाऽशक्यं शृणु भद्रे यथातथम्
समीपे नगरस्यास्य वको वसति राक्षसः। इतो गव्यूतिमात्रे।ञस्ति यमुनागह्वरे गुहा
तस्यां घोरः स वसति जिघांसुः पुरुषादकः। बकाभिधानो दुष्टात्मा राक्षसानां कुलाधमः
ईशो जनपदस्यास्य पुरस्य च महाबलः। पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः
प्रबलः कामरूपी च राक्षसस्तु महाबलः। तेनोपसृष्टा नगरी वर्षमद्य त्रयोदशम्
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम्। पुरुषादेन रौद्रेण भक्ष्यमाणा दुरात्मना
अनाथा नगरी नाथं त्रातारं नाधिगच्छति। गुहायां च वसंस्तत्र बाधते सततं जनम्
स्त्रियो बालांश्च वृद्धांश्च यूनश्चापि दुरात्मवान्। अत्र मन्त्रैश्च होमैश्च भोजनैश्च स राक्षसः
ईडितो द्विजमुख्यैश्च पूजितश्च दुरात्मवान्। यदा च सकलानेवं प्रसूदयति राक्षसः