आत्मनो विद्यमानत्वाद्भुवनानि चतुर्दश। विद्यन्ते द्विजशार्दूल आतमा रक्ष्यस्ततस्त्वया
आत्मन्यविद्यमाने चेदस्य नास्तीह किंचन। एतज्जगदिदं सर्वमात्मना न समं किल
स कुरुष्व मया कार्यं तारयात्मानमात्मना। अनुजानीही मामार्य सुतौ मे परिपालय
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये। धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि
निःसंशयं वधः पुंसां स्त्रीणां संशयितो वधः। अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया। `त्वच्छुश्रूषणसंभूता कीर्तिश्चाप्यतुला मम।' त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितं
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा। समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः
उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम्। ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम्। स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम्। आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत। मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः
मैवं वद त्वं कल्याणि तिष्ठ चेह सुमध्यमे। न तु भार्यां त्यजेत्प्राज्ञः पुत्रान्वापि कदाचन
विशेषतः स्त्रियं रक्षेत्पुरुषो बुद्धिमानिह। त्यक्त्वा तु पुरुषो जीवेन्न हातव्यानिमान्सदा। न वेत्ति कामं धर्मं च अर्थं मोक्षं च तत्त्वतः
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु। ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत
किमेवं भृशदुःखार्तौ रोरूयेतामनाथवत्। ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम्
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः। त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति। अस्मिन्नुपस्थिते काले तरध्वं प्लववन्मया
इह वा तारयेद्दुर्गादुत वा प्रेत्य भारत। सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः
आकाङ्क्षन्ते च दौहित्रान्मयि नित्यं पितामहाः। तत्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः
भ्राता च मम बालोऽयं गते लोकममुं त्वयि। अचिरेणैव कालेन विनश्येत न संशयः
तातेपि हि गते स्वर्गं विनष्टे च ममानुजे। पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत्
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्। दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिताम्
त्वयि त्वरोगे निर्मुक्तो माता भ्राता च मे शिशुः। सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्
आत्मा पुत्रः सखी भार्या कृच्छ्रं तु दुहिता किल। स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजया
अनाथा कृपणा बाला यत्र क्वचन गामिनी। भविष्यामि त्वया तात विहीना कृपणा सदा
अथवाहं करिष्यामि कुलस्यास्य विमोचनम्। फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम। पीडिताऽहं भविष्यामि तदवेक्षस्व मामपि
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम। आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज
अवश्यकरणीये च मा त्वां कालोत्यगादयम्। किं त्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि
याचमानाः परादन्नं परिधावेमहि श्ववत्। त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे। अमृतेव सती लोके भविष्यामि सुखान्विता