कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान्। अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान्
इमामपि च ते बालामनाथां परिभूय माम्। अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा
तां चेदहं न दित्सेयं सद्गुणैरुपबृंहिताम्। प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात्
संप्रेक्षमाणा पुत्रीं ते नानुरूपमिवात्मनः। अनर्हवशमापन्नामिमां चापि सुतां तव
अवज्ञाता च लोकेषु तथान्मानमजानती। अवलिप्तैरैर्ब्रह्मन्मरिष्यामि न संशयः
तौ च हीनौ मया बालौ त्वया चैव तथात्मजौ। विनश्येतां न सन्देहो मत्स्याविव जलक्षये
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम्। त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः। ननु ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः
अनिष्टमिह पुत्राणां विषये परिवर्तितुम्। हरिद्राञ्जनपुष्पादिसौमङ्गल्ययुता सती
मरणं याति या भर्तुस्तद्दत्तजलपायिनी। भर्तृपादार्पितमनाः सा याति गिरिजापदम्
गिराजायाः सखी भूत्वा मोदते नगकन्यया। मितं ददाति हि पिता मितं माता मितं सुतः
अमितस्य हि दातारं का पतिं नाभिनन्दति। आश्रमाश्चाग्निसंस्कारा जपहोमव्रतानि च
स्त्रीणां नैते विधातव्या विना पतिमनिन्दितम्। क्षमा शौचमनाहारमेतावद्विहितं स्त्रियाः
परित्यक्तः सुतश्चायं दुहितेयं तथा मया। बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा। विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः
तदिदं यच्चिकीर्षामि धर्मं परमसंमतम्। इष्टं चैव हितं चैव तव चैव कुलस्य च
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः। आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम्
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि। आत्मानं सततं रक्षेद्दारैरपि धनैरपि
दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम्। सर्वमेतद्विधातव्यं बुधानामेष निश्चयः
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः। `उभयोः कोधिको विद्वन्नात्मा चैवाधिकः कुलात्
आत्मनो विद्यमानत्वाद्भुवनानि चतुर्दश। विद्यन्ते द्विजशार्दूल आतमा रक्ष्यस्ततस्त्वया
आत्मन्यविद्यमाने चेदस्य नास्तीह किंचन। एतज्जगदिदं सर्वमात्मना न समं किल
स कुरुष्व मया कार्यं तारयात्मानमात्मना। अनुजानीही मामार्य सुतौ मे परिपालय
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये। धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि
निःसंशयं वधः पुंसां स्त्रीणां संशयितो वधः। अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया। `त्वच्छुश्रूषणसंभूता कीर्तिश्चाप्यतुला मम।' त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितं
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा। समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः
उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम्। ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम्। स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम्। आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ