उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च। जगाम तपसे धीमान्पुनरेवाश्रमं प्रति
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्। अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः। शशास शिष्यमासीनं वैशंपायनमन्तिके
स सदस्यैः सहासीनं श्रावयामास भारतम्। कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः
विस्तारं कुरुवंशस्य गान्धार्या धर्मशीलताम्। क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोब्रवीत्
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्। दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः
इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम्। उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्। उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः। अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम्
तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः। कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत्
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च। तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया। तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः
आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः
हिरण्यमर्भमासीनं तस्मिंस्तु परमासने। परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत्
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना। निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्। कृतं मयेदं भगवन्काव्यं परमपूजितम्
ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया। साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया
इतिहासपुरापानामुन्मेषं निमिषं च यत्। भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम्
जरामृत्युभयव्याधिभावाभावविनिश्चयः। विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः। तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह। ऋचो यजूषि सामानि वेदाध्यात्मं तथैव च
न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा। इति नैकाश्रयं जन्म दिव्यमानुषसंज्ञितम्
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्। नदीनां पर्वतानां च वनानां सागरस्य च
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्। वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्। परं न लेखकः कश्चिदेतस्य भुवि विद्यते
तपोविशिष्टदपि वै वसिष्ठान्मुनिपुंगवात्। मन्ये श्रेष्ठव्यं त्वां वै रहस्यज्ञानवेदनात्
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम्। त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति
अस्य काव्यस्य कवयो न समर्था विशेषणे। विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः
जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत्। यदि ज्ञानहुताशेन त्वया नोज्ज्वलियं भवेत्
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः। ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः कृतः