आत्मानमपि चोत्सृज्य गते प्रेतवशं मयि।' त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः। आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम्। अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः। सर्वैः सह मृतं श्रेयो न च मे जीवितुं क्षमम्
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित्। न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः। अवश्यभाविन्यर्थे वै संतापो नेह विद्यते
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते। व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च
एतद्धि परमं नार्याः कार्यं लोके सनातनम्। प्राणानपि परित्यज्य यद्भर्तुर्हितमाचरेत्
तच्च तत्र कृतं कर्म तवापीदं सुखावहम्। भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम्
एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव। अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि। कन्या चैका कुमारश्च कृताहमनृणा त्वया
समर्थः पोषणे चासि सुतयो रक्षणे तथा। न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे
मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर। कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम्
कथं हि विधवाऽनाथा बालपुत्रा विना त्वया। मिथुनं जीवयिष्यामि स्थिता साधुगते पथि
अहं कृतावलेपैश्च प्रार्थ्यमानामिमां सुताम्। अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम्
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः। प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम्
साऽहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः। स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम
स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले। मातापित्रोर्वशे कन्या प्रौढा भर्तृवशे तथा
अभावे चानयोः पुत्रे खतन्त्रा स्त्री विगर्हिता
अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत्। वस्त्रखण्डं घृताक्तं हि यथा संकृष्यते श्वभिः
कथं तव कुलस्यैकमिमं बालमनागसम्। पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान्। अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान्
इमामपि च ते बालामनाथां परिभूय माम्। अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा
तां चेदहं न दित्सेयं सद्गुणैरुपबृंहिताम्। प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात्
संप्रेक्षमाणा पुत्रीं ते नानुरूपमिवात्मनः। अनर्हवशमापन्नामिमां चापि सुतां तव
अवज्ञाता च लोकेषु तथान्मानमजानती। अवलिप्तैरैर्ब्रह्मन्मरिष्यामि न संशयः
तौ च हीनौ मया बालौ त्वया चैव तथात्मजौ। विनश्येतां न सन्देहो मत्स्याविव जलक्षये
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम्। त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः। ननु ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः
अनिष्टमिह पुत्राणां विषये परिवर्तितुम्। हरिद्राञ्जनपुष्पादिसौमङ्गल्ययुता सती
मरणं याति या भर्तुस्तद्दत्तजलपायिनी। भर्तृपादार्पितमनाः सा याति गिरिजापदम्