यया दौहित्रजाँल्लोकानाशंसे पितृभिः सह। स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः। कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ
यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम्। अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे
कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम्। प्रार्थयेयं परां प्रीतिं यस्मिन्स्वर्गफलानि च
यस्य जातस्य पितरो मुखं दृष्ट्वा दिवं गताः। अहं मुक्तः पितृऋणाद्यस्य जातस्य तेजसा
दयितं मे कथं बालमहं त्यक्तुमिहोत्सहे। तमहं ज्येष्ठपुत्रं मे कुलनिर्हारकं विभुम्
मम पिण्डोदकनिधिं कथं त्यक्ष्यामि पुत्रकम्। त्यागोऽयं मम संप्राप्तो ममन्वा मे सुतस्य वा
तव वा तव पुत्र्या वा अत्र वासस्य तत्फलम्। न शृणोषि वचो मह्यं तत्फलं भुङ्क्ष्व भामिनि
अथवाहं न शक्ष्यामि स्वयं मर्तुं सुतं मम। एकं त्यक्तुं न शक्नोति भवतीं च सुतामपि
अथ मद्रक्षणार्थं वा न हि शक्ष्यामि कंचन। परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत्
आत्मानमपि चोत्सृज्य गते प्रेतवशं मयि।' त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः। आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम्। अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः। सर्वैः सह मृतं श्रेयो न च मे जीवितुं क्षमम्
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित्। न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः। अवश्यभाविन्यर्थे वै संतापो नेह विद्यते
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते। व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च
एतद्धि परमं नार्याः कार्यं लोके सनातनम्। प्राणानपि परित्यज्य यद्भर्तुर्हितमाचरेत्
तच्च तत्र कृतं कर्म तवापीदं सुखावहम्। भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम्
एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव। अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि। कन्या चैका कुमारश्च कृताहमनृणा त्वया
समर्थः पोषणे चासि सुतयो रक्षणे तथा। न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे
मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर। कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम्
कथं हि विधवाऽनाथा बालपुत्रा विना त्वया। मिथुनं जीवयिष्यामि स्थिता साधुगते पथि
अहं कृतावलेपैश्च प्रार्थ्यमानामिमां सुताम्। अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम्
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः। प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम्
साऽहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः। स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम
स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले। मातापित्रोर्वशे कन्या प्रौढा भर्तृवशे तथा
अभावे चानयोः पुत्रे खतन्त्रा स्त्री विगर्हिता
अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत्। वस्त्रखण्डं घृताक्तं हि यथा संकृष्यते श्वभिः
कथं तव कुलस्यैकमिमं बालमनागसम्। पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे