अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने। भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत
रोरुयमाणांस्तान्दृष्ट्वा परिदेवयतश्च सा। कारुण्यात्साधुभावाच्च कुन्ती राजन्न चक्षमे
मथ्यमानेव दुःखेन हृदयेन पृथा तदा। उवाच भीमं कल्याणी कृपान्वितमिदं वचः
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने। अज्ञाता धार्तराष्ट्रस्य सत्कृतां वीतमन्यवः
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम्।। कदा प्रियं करिष्यामि यत्कुर्युरुषिताः सुखम्
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति। यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम्। न तत्र यदि साहाय्यं कुर्याम सुकृतं भवेत्
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम्। विदित्वा व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम्
एवं तौ कथयन्तौ च भूयः सुश्रुवतुः स्वनम्। आर्तिजं तस्य विप्रस्य सभार्यस्य विशांपते
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः। विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च। दुहित्रा चैव सहितं ददर्श विकृताननम्
धिगिदं जीवितं लोके गतसारमनर्थकम्। दुःखमूलं पराधीनं भृशमप्रियभागि च
जीविते परमं दुःखं जीविते परमो ज्वरः। जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः
आत्मा ह्येको हि धर्मार्थौ कामं चैव निषेवते। एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम्
आहुः केचित्परं मोक्षं स च नास्ति कथंचन। अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम्। जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्
यावन्तो यस्य संयोगा द्रव्यैरिष्टैर्भवन्त्युत। तावन्तोऽस्य निख्यन्ते हृदये शोकशङ्कवः
तदिदं जीवितं प्राप्य अल्पकालं महाभयम्। त्यागो हि न मया प्राप्तो भार्यया सहितेन च
न हि योगं प्रपश्यामि येन मुच्येयमापदः। पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम्
यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत्तथा। क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम्
इह जाता विवृद्धाऽस्मि पिता माता ममेति वै। उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत्
स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव। बन्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः
न भोजनं विरुद्धं स्यान्न स्त्रीदेशो निबन्धनः। सुदूरमपि तं देशं व्रजेद्गरुडहंसवत्
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम। बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम
अथवा मद्विनाशो यं न हि शक्ष्यामि कंचन। परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत्
सहधर्मचरीं दान्तां नित्यं मातृसमां मम। सखायं विहितां देवैर्नित्यं परमिकां गतिम्
पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम्। वरयित्वा यथान्यायं मन्त्रवत्परिणीय च
कुलीनां शीलसंपन्नामपत्यजननीमपि। त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम्
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम्। कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम्
बालामप्राप्तवयसमजातव्यञ्जनाकृतिम्। भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना