अर्धं स्म भुञ्जते पञ्च सह मात्रा परन्तपाः। अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः
स नाशितश्च भवति कल्याणान्नभुजिः पुरा। स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम्
आज्यबिन्दुर्यथा वह्नौ महति ज्वलिते भवेत्। तथार्धभागं भीमस्य भिक्षान्नस्य नरोत्तम
तथैव वसतां तत्र तेषां राजन्महात्मनाम्। अतिचक्राम सुमहान्कालोऽथ भरतर्षभ
भीमोऽपि क्रीडयित्वाथ मिथो ब्राह्मणबन्धुषु। कुम्भकारेण संबन्धाल्लेभे पात्रं महत्तरम्
कुम्भकारोऽददात्पात्रं महत्कृत्वातिमात्रकम्। प्रहसन्भीमसेनाय विस्मितस्तस्य कर्मणा
तस्याद्भुतं कर्म कुर्वन्मृद्भारं महदाददे। मृद्भारैः शतसाहस्रैः कुम्भकारमतोषयत्
चक्रे चक्रे च मृद्भाण्डान्सततं भैक्षमाचरन्। तदादायागतं दृष्ट्वा हसन्ति प्रहसन्ति च
भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च। एवमेव सदा भुक्त्वा मात्रे वदति वै रहः। न चाशितोऽस्मि भवति कल्याणान्नभृतः पुरा
ततः कदाचिद्भैक्षाय गतास्ते पुरषर्षभाः। संगत्य भीमसेनस्तु तत्रास्ते पृथया सह
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने। भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत
रोरुयमाणांस्तान्दृष्ट्वा परिदेवयतश्च सा। कारुण्यात्साधुभावाच्च कुन्ती राजन्न चक्षमे
मथ्यमानेव दुःखेन हृदयेन पृथा तदा। उवाच भीमं कल्याणी कृपान्वितमिदं वचः
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने। अज्ञाता धार्तराष्ट्रस्य सत्कृतां वीतमन्यवः
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम्।। कदा प्रियं करिष्यामि यत्कुर्युरुषिताः सुखम्
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति। यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम्। न तत्र यदि साहाय्यं कुर्याम सुकृतं भवेत्
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम्। विदित्वा व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम्
एवं तौ कथयन्तौ च भूयः सुश्रुवतुः स्वनम्। आर्तिजं तस्य विप्रस्य सभार्यस्य विशांपते
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः। विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च। दुहित्रा चैव सहितं ददर्श विकृताननम्
धिगिदं जीवितं लोके गतसारमनर्थकम्। दुःखमूलं पराधीनं भृशमप्रियभागि च
जीविते परमं दुःखं जीविते परमो ज्वरः। जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः
आत्मा ह्येको हि धर्मार्थौ कामं चैव निषेवते। एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम्
आहुः केचित्परं मोक्षं स च नास्ति कथंचन। अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम्। जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्
यावन्तो यस्य संयोगा द्रव्यैरिष्टैर्भवन्त्युत। तावन्तोऽस्य निख्यन्ते हृदये शोकशङ्कवः
तदिदं जीवितं प्राप्य अल्पकालं महाभयम्। त्यागो हि न मया प्राप्तो भार्यया सहितेन च
न हि योगं प्रपश्यामि येन मुच्येयमापदः। पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम्
यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत्तथा। क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम्