तदाश्रमान्निर्गमनं मया ज्ञातं नरर्षभाः। घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत
इदं नगरमभ्याशे रमणीयं निरामयम्। वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः
एवं स तान्समाश्वास्य व्यासः पार्तानरिन्दमान्। एकचक्रामभिगतां कुन्तीमाश्वासयत्प्रभुः
कुर्यान्न केवलं धर्मं दुष्कृतं च तथान नरः। सुकृतं दुष्कृतं लोके न कर्ता नास्ति कश्चन
अवश्यं लभते कर्ता फलं वै पुण्यपापयोः। दुष्कृतस्य फलेनैव प्राप्तं व्यसनमुत्तमम्
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने
जगाम भगवान्व्यासो यताकाममृषिः प्रभुः
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः। अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः
एकचक्रां गतास्ते तु कन्तीपुत्रा महारथाः। ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने
रमणीयानि पश्यन्तो वनानि विविधानि च। पार्थिवानपि चोद्देशान्सरितश्च सरांसि च
चेरुर्भैश्रं तदा ते तु सर्व एव विशांपते। `युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते
भैक्षं चरन्तस्तु तदा जटिला ब्रह्मचारिणः। बभूवुर्नागराणां च गुणैः संप्रियदर्शनाः
दर्शनीया द्विजाः शुभ्रा देवगर्भोपमाः शुभाः। भैक्षानर्हाश्च राज्यार्हाः सुकुमारास्तपस्विनः
नैते यथार्थतो विप्राः सुकुमारास्तपस्विनः। चरन्ति भूमौ प्रच्छन्नाः कस्माच्चित्कारणादिह
सर्वलक्षणसंपन्ना भैक्षं नार्हन्ति नित्यशः। कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन्
बन्धूनामागमान्नित्यमुपचारैस्तु नागराः। भाजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन्
मौनव्रतेन संयुक्ता भैश्रं गृह्णन्ति पाण्डवाः। माता चिरगतान्ज्ञात्वा शोचन्ती पाण्डवान्प्रति
दुःखाश्रुपूर्णनयना लिखन्त्यास्ते महीतलम्। भिक्षित्वा द्विजगेहेषु चिन्तयन्तश्च मातरम्
त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः। मात्रे निवेदयन्ति स्म कुन्त्यै भैक्षं दिवानिशम्
सर्वं संपूर्णभैक्षान्नं मातृदत्तं पृथक्पृथक्। विभज्याभुञ्जतेष्टं ते यथाभागं पृथक्पृथक्
अर्धं स्म भुञ्जते पञ्च सह मात्रा परन्तपाः। अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः
स नाशितश्च भवति कल्याणान्नभुजिः पुरा। स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम्
आज्यबिन्दुर्यथा वह्नौ महति ज्वलिते भवेत्। तथार्धभागं भीमस्य भिक्षान्नस्य नरोत्तम
तथैव वसतां तत्र तेषां राजन्महात्मनाम्। अतिचक्राम सुमहान्कालोऽथ भरतर्षभ
भीमोऽपि क्रीडयित्वाथ मिथो ब्राह्मणबन्धुषु। कुम्भकारेण संबन्धाल्लेभे पात्रं महत्तरम्
कुम्भकारोऽददात्पात्रं महत्कृत्वातिमात्रकम्। प्रहसन्भीमसेनाय विस्मितस्तस्य कर्मणा
तस्याद्भुतं कर्म कुर्वन्मृद्भारं महदाददे। मृद्भारैः शतसाहस्रैः कुम्भकारमतोषयत्
चक्रे चक्रे च मृद्भाण्डान्सततं भैक्षमाचरन्। तदादायागतं दृष्ट्वा हसन्ति प्रहसन्ति च
भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च। एवमेव सदा भुक्त्वा मात्रे वदति वै रहः। न चाशितोऽस्मि भवति कल्याणान्नभृतः पुरा
ततः कदाचिद्भैक्षाय गतास्ते पुरषर्षभाः। संगत्य भीमसेनस्तु तत्रास्ते पृथया सह