प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा। मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः
घटोहास्योत्कच इति माता तं प्रत्यभाषत। अभवत्तेन नामास्य घटोत्कच इति स्म ह
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः। तेषां च दयितो नित्यमात्मनित्यो बभूव ह
घटोत्कचो महाकायः पाण्डवान्पृथया सह। अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्य तान्
किं करोम्यहमार्याणां निःशङ्कं वदतानघाः। तं ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत्
त्वं कुरूणां कुले जातः साक्षाद्भीमसमो ह्यसि। ज्येष्ठः पुत्रोसि पञ्चानां साहाय्यं कुरु पुत्रक
पृथयाप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत्। यथा हि रावणो लोके इन्द्रजिच्च महाबलः। वर्ष्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु
कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः। आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम्
स हि सृष्टो भगवता शक्तिहेतोर्महात्मना। वर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः
सह वासो मया जीर्णस्त्वया कमलपालिके। पुनर्द्रक्ष्यसि राज्यस्थानित्यभाषत तां तदा
पदा मां संस्मरेः कान्त रिरंसू रहसि प्रभो। तदा तव वशं भूय आगन्तास्म्याशु भारत
इत्युक्त्वा सा जगामाशु भावमासज्य पाण्डवे। हिडिम्बा समयं स्मृत्वा स्वां गतिं प्रत्यपद्यत
ततस्ते पाण्डवाः सर्वे शालिहोत्राश्रमे तदा। पूजितास्तेन वन्येन तमामन्त्र्य महामुनिम्
जटाः कृत्वाऽऽत्मनः सर्वे वल्कलाजिनवाससः। कुन्त्या सह महात्मानो बिभ्रतस्तापसं वपुः
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः। नीतिशास्त्रं च धर्मज्ञा न्यायज्ञानं च पाण्डवाः
शालिहोत्रप्रसादेन लब्ध्वा प्रीतिमवाप्य च।' ते वनेन वनं गत्वा घ्नन्तो मृगगणान्बहून्। अपक्रम्य ययू राजंस्त्वरमाणा महारथाः
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च। रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः। `क्वचिच्छ्रान्ताश्च कान्तारे क्वचित्तिष्ठन्ति हर्षिताः
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः। पथि द्वैपायन सर्वे ददृशुः स्वपितामहम्
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा। तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः
तदाश्रमान्निर्गमनं मया ज्ञातं नरर्षभाः। घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत
इदं नगरमभ्याशे रमणीयं निरामयम्। वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः
एवं स तान्समाश्वास्य व्यासः पार्तानरिन्दमान्। एकचक्रामभिगतां कुन्तीमाश्वासयत्प्रभुः
कुर्यान्न केवलं धर्मं दुष्कृतं च तथान नरः। सुकृतं दुष्कृतं लोके न कर्ता नास्ति कश्चन
अवश्यं लभते कर्ता फलं वै पुण्यपापयोः। दुष्कृतस्य फलेनैव प्राप्तं व्यसनमुत्तमम्
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने
जगाम भगवान्व्यासो यताकाममृषिः प्रभुः
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः। अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः
एकचक्रां गतास्ते तु कन्तीपुत्रा महारथाः। ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने
रमणीयानि पश्यन्तो वनानि विविधानि च। पार्थिवानपि चोद्देशान्सरितश्च सरांसि च