द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च। यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन
यदह्ना कुरुते पाप ब्राह्मणस्त्विन्द्रियैश्चरन्। महाभारतमाख्याय सन्ध्यां मुच्यति पश्चिमाम्
यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा। महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते
यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय। पुण्यां च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव
आख्यानं तदिदमनुत्तमं महार्थं विज्ञेयं महदिह पर्वसंग्रहेण। श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन
पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच। `मयोत्तङ्कस्य चरितमशेषमुक्तं जनमेजयस्य सार्पसत्रे निमित्तान्तरमिदमपि।' किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति
परं रौमहर्षणे प्रवक्ष्यामस्त्वां नः प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे
तत्र भगवान् कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते। `दीर्घसत्रत्वात्सर्वाः कथाः श्रोतुं कालोस्ति
यौऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः। मनुष्योरगगन्धर्वकथा वेद च सर्वशः
स चाप्यस्मिन्मशे सौते विद्वान्कुलपतिर्दिवजः। दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः
सत्यवादी शमपरस्तपस्वी नियतव्रतः। सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्
तस्मिन्नध्यासति गुरावासनं परमार्चितम्। ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि। तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः
सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि। देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह
यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः। यज्ञायतनमाश्रित्य सूतपुत्रपुरस्पराः
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा। उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्
पुराणमखिलं तात पिता तेऽधीतवान्पुरा। `भारताध्ययनं सर्वं कृष्णद्वैपायनात्तदा।' कच्चित्त्वमपि तत्सर्वमधीषे रौमहर्षणे
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्। कथ्यन्ते ये पुराऽस्माभिः श्रुतपूर्वाः पितुस्तव
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्। कथयस्व कथामेतां कल्याः स्मः श्रवणे तव
यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः। वैशंपायनविप्राग्र्यैस्तैश्चापि कथितं यथा
यदधीतं च पित्रा मे सम्यक्कैव ततो मया। तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः
पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन। इमं वंशमहं पूर्वं भार्गवं ते महामुने
निगदामि यथायुक्तं पुराणाश्रयसंयुतम्। भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयंभुवा
वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम्। भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः
च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः। प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत
रुरोरपि सुतो जज्ञे शुनको वेदपारगः। प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः। धार्मिकः सत्यवादी च नियतो नियताशनः
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः। च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता। तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः
तस्मिन्गर्भेऽथ संभूते पुलोमायां भृगूद्वह। समये समशीलिन्यां धर्मपत्न्यां यशस्विनः