पृथिव्यां पार्थइवान्सर्वान्प्रशासिष्यति धर्मराट्। धर्मेण जित्वा पृथिवीमखिलां धर्मकृद्वशी
स्थापयित्वा वशे सर्वां सपर्वतवनां शुभाम्। भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयम्
पुत्रास्तव च माद्र्याश्च पञ्चैते लोकविश्रुताः। स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम्। राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च। पितृपैतामहं राज्यमहारिष्यन्ति ते सुताः
स्नुषा कमलपत्राक्षी नाम्ना कमलपालिका। वशवर्तिनी तु भीमस्य पुत्रमेषा जनिष्यति
तेन पुत्रेण कृच्छ्रेषु भविष्यथ च तारिताः। इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः
देशकालौ विदित्वैवं यास्यध्वं परमां मुदम्
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो जनाधिप। जगाम भगवान्व्यासो यथागतमृषिः प्रभुः
गते भगवति व्यासे पाण्डवा विगतज्वराः। ऊषुस्तत्र च षण्मासान्वटवृक्षे यथासुखम्
शाकमूलफलाहारास्तपः कुर्वन्ति पाण्डवाः। अनुज्ञाता महाराज ततः कमलपालिका
रमयन्ती सदा भीमं तत्रतत्र मनोजवा। दिव्याभरणवस्त्रा हि दिव्यस्रगनुलेपना
एवं भ्रातॄन्सप्त मासान्हिडिम्बाऽवासयद्वने। पाण्डवान्भीमसेनार्थे राक्षसी कामरूपिणी
सुखं स विहरन्भीमस्तत्कालं पर्यणामयत्। ततोऽलभत सा गर्भं राक्षसी कामरूपिणी
अतृप्ता भीमसेनेन सप्तमासोपसंगता।' प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलात्
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम्। भीमरूपं सुताम्राक्षं तीक्ष्णदंष्ट्रं महारथम्
महेष्वासं महावीर्यं महासत्वं महाजवम्। महाकायं महाकालं महाग्रीवं महाभुजम्
अमानुषं मानुषजं भीमवेगमरिन्दमम्। पिशाचकानतीत्यान्यान्बभूवाति स मानुषान्
बालोऽपि विक्रमं प्राप्तो मानुषेषु विशांपते। सर्वास्त्रेषु वरो वीरः प्रकाममभवद्बली
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च। कामरूपधराश्चैव भवन्ति बहुरूपिकाः
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा। मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः
घटोहास्योत्कच इति माता तं प्रत्यभाषत। अभवत्तेन नामास्य घटोत्कच इति स्म ह
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः। तेषां च दयितो नित्यमात्मनित्यो बभूव ह
घटोत्कचो महाकायः पाण्डवान्पृथया सह। अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्य तान्
किं करोम्यहमार्याणां निःशङ्कं वदतानघाः। तं ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत्
त्वं कुरूणां कुले जातः साक्षाद्भीमसमो ह्यसि। ज्येष्ठः पुत्रोसि पञ्चानां साहाय्यं कुरु पुत्रक
पृथयाप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत्। यथा हि रावणो लोके इन्द्रजिच्च महाबलः। वर्ष्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु
कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः। आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम्
स हि सृष्टो भगवता शक्तिहेतोर्महात्मना। वर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः
सह वासो मया जीर्णस्त्वया कमलपालिके। पुनर्द्रक्ष्यसि राज्यस्थानित्यभाषत तां तदा