प्रतिवाक्यं तु नेच्छामि आवयोर्वचनं कुरु
शासनं ते करिष्यामि वेदशासनमित्यपि। समक्षं भ्रातृमध्ये तु तां चोवाच स राक्षसीम्
शृणु राक्षसि सत्येन समयं ते वदाम्यहम्।' यावत्कालेन भवति पुत्रस्योत्पादनं शुभे
तावत्कालं चरिष्यामि त्वया सह सुमध्यमे। `विशेषतो मत्सकाशे मा प्रकाशय नीचताम्
सा तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तथा
गताऽहनि निवेशेषु भोज्यं राजार्हमानयत्। सा कदाचिद्विहारार्थं हिडिम्बा कामरूपिणी
भीमसेनमुपादाय ऊर्ध्वमाचक्रमं तदा। शैलशृङ्गेषु रम्येषु देवतायतनेषु च
मृगपक्षिविघृष्टेषु रमणीयेषु सर्वेषु। कृत्वा सा परमं रूपं सर्वाभरणभूषिता
संजल्पन्ती सुमधुरं रमयामास पाण्डवम्। तथैव वनदुर्गेषु पर्वतद्रुमसानुषु
सरस्तु रमणीयेषु पद्मोत्पलवनेषु च। नदीद्वीपप्रदेशेषु वैडूर्यसिकतेषु च
देवारण्येषु पुण्येषु तथा पर्वतसानुषु। सुतीर्थवनतोयासु तथा गिरिनदीषु च
सागरस्य प्रदेशेषु भणिहेमयुतेषु च। गुह्यकानां निवासेषु कुलपर्वतसानुषु
सर्वर्तुफलवृक्षेषु मानसेषु वनेषु च। बिभ्रती परमं रूपं रमयामास पाण्डवम्
यथा सुमोदते स्वर्गे सुकृत्यप्सरसा सह। सुतरां परमप्रीतस्तथा रेमे महाद्युतिः
शुभं हि जघनं तस्याः सवर्णमणिमेखलम्। न ततर्प तदा मृद्गन्भीमसेनो मुहुर्मुहुः
रमयन्ती ततो भीमं तत्रतत्र मनोजवा। सा रेमे तेन संहर्षात्तृप्यन्ती च मुहुर्मुहुः
अहस्सु रमयन्ती सा निशाकालेषु पाण्डवम्। आनीय वै स्वके गेहे दर्शयामास मातरम्
भ्रातृभिः सहितो नित्यं स्वपते पाण्डवस्तथा। कुन्त्याः परिचरन्ती सा तस्याः पार्श्वेवसन्निशां
कामांश्च मुखवासादीनानयिष्यति भोजनम्। तस्यां रात्र्यां व्यतीतायामाजगाम महाव्रतः
पाराशर्यो महाप्राज्ञो दिव्यदर्शी महातपाः। तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं शुभम्। तस्थुः प्राञ्जलयः सर्वे सस्नुषा चैव माधवी
मयेदं मनसा पूर्वं विदितं भरतर्षभाः। यथा स्थितैरधर्मेण धार्तराष्ट्रौर्विवासिताः
तद्विदित्वाऽस्मि संप्राप्तश्चिकीर्ष्वै परं हितम्। न विषादो हि वः कार्यः सर्वमेतत्सुखाय वः
सुहृद्वियोजनं कर्म पुराकृतमरिन्दमाः। तस्य सिद्धिरियं प्राप्ता मा शोचत परन्तपाः
समाप्ते दुष्कृते चैव यूयं ते वै न संशयः। स्वराष्ट्रे विहरिष्यन्तो भविष्यथ सबान्धवाः
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः। तस्मादभ्यधिकः स्नेहो युष्मासु मम संप्रति
स्नेहपूर्वं चिकीर्षामि हितं यत्तन्निबोधत। वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः
एतद्वै शालिहोत्रस्य तपसा निर्मितं सरः। रमणीयमिदं तोयं क्षुत्पिपासाश्रमापहम्
कार्यार्थिनस्तु षण्मासान्विहरध्वं यथासुखम्
एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान्। स्नेहाच्च संपरिष्वज्य कुन्तीमाश्वासयत्प्रभुः
स्नुषे मा रोद मा रोदेत्येवं व्यासोऽब्रवीद्वचः। जीवपुत्रे सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः