राक्षस्येषा हि वाक्येन धर्मं वदति साधु वै। भावेन दुष्टा भीमं वै किं करिष्यति राक्षसी
एवमेतद्यथाऽऽत्थ त्वं हिडिम्बे नात्र संशयः
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे। `नित्यं कृताह्निका स्नाता कृतशौचा सुरूपिणी
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम्। भीमसेनं भजेथास्त्वमुदिते वै दिवाकरे
अहस्सु विहरानेन यथाकामं मनोजवा। अयं त्वानयितव्यस्ते भीमसेनः सदा निशि
प्राक्सन्ध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः। एवं रमस्व भीमेन यावद्गर्भस्य वेदनम्
एष ते समयो भद्रे शुश्रूषा चाप्रमत्तया। नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया
युधिष्ठिरवचः श्रुत्वा कुन्तीमङ्गेऽधिरोप्य सा। भीमार्जुनान्तरगता यमाभ्यां च पुरस्कृता
तिर्यग्युधिष्ठिरे याति हिडिम्बा भीमगामिनी। शालिहोत्रसरो रम्यमाससाद जलार्थिनी
वनस्पतितलं गत्वा परिमृज्य गृहं यथा। पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा
आत्मनश्च तथा कुन्त्या एकोद्देशे चकार सा। पाण्डवास्तु ततः स्नात्वा शुद्धाः सन्ध्यामुपास्य च
तृषिताः क्षुत्पिपासार्ता जलमात्रेण वर्तयन्। शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान्पाण्डवांस्तदा
मनसा चिन्तयामास पानीयं भोजनं महत्। ततस्ते पाण्डवाः सर्वे विश्रान्ताः पृथया सह
यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत्। कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनम्
कुन्ती राजसुता वाक्यं भीमसेनमथाब्रवीत्। यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः
अहं धर्मविदाऽनेन मान्या गुरुतरा तव। तस्मात्पाण्डुहितार्थं मे युवराज हितं कुरु
निकृता धार्तराष्ट्रेण पापेनाकृतबुद्धिना। दुष्कृतस्य प्रतीकारं न पश्यामि वृकोदर
तस्मात्कतिपयाहेन योगक्षेमं भविष्यति। क्षेमं दुर्गमिमं वासं वत्स्याम हि यथा वयम्
इदमन्यन्महदुःखं धर्मकृच्छ्रं वृकोदर। दृष्ट्वैव त्वां महाप्राज्ञ अनङ्गाभिप्रचोदिता
युधिष्ठिरं च मां चैव वरयामास धर्मतः। धर्मार्थं देहि पुत्रं त्वं स नः श्रेयः करिष्यति
प्रतिवाक्यं तु नेच्छामि आवयोर्वचनं कुरु
शासनं ते करिष्यामि वेदशासनमित्यपि। समक्षं भ्रातृमध्ये तु तां चोवाच स राक्षसीम्
शृणु राक्षसि सत्येन समयं ते वदाम्यहम्।' यावत्कालेन भवति पुत्रस्योत्पादनं शुभे
तावत्कालं चरिष्यामि त्वया सह सुमध्यमे। `विशेषतो मत्सकाशे मा प्रकाशय नीचताम्
सा तथेति प्रतिज्ञाय हिडिम्बा राक्षसी तथा
गताऽहनि निवेशेषु भोज्यं राजार्हमानयत्। सा कदाचिद्विहारार्थं हिडिम्बा कामरूपिणी
भीमसेनमुपादाय ऊर्ध्वमाचक्रमं तदा। शैलशृङ्गेषु रम्येषु देवतायतनेषु च
मृगपक्षिविघृष्टेषु रमणीयेषु सर्वेषु। कृत्वा सा परमं रूपं सर्वाभरणभूषिता
संजल्पन्ती सुमधुरं रमयामास पाण्डवम्। तथैव वनदुर्गेषु पर्वतद्रुमसानुषु
सरस्तु रमणीयेषु पद्मोत्पलवनेषु च। नदीद्वीपप्रदेशेषु वैडूर्यसिकतेषु च